पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
नैषधीयचरिते

  गुच्छालयस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफेनिलाङ्के।

  माणिक्यहारस्य विदर्भसुभ्रूपयोधरे रोहति रोहितश्रीः ॥ ७६ ॥

 गुच्छेति ॥ माणिक्यमयस्य हारस्य रोहितश्रीः लोहिता कान्तिः विदर्भसुभ्रूपयोधरे भैमीकुचे रोहति प्रादुर्भवति । किंभूते-गुच्छो हारविशेष आलय आश्रयो येषां तानि स्वच्छतमानि निर्मलतराणि उदबिन्दुवृन्दवजलबिन्दुसमूहवदामा येषां तानि मुक्ता- फलानि तैः फेनिला फेनयुक्त इव उज्ज्वलतरोऽङ्को मध्यो यस्य। मुक्ताहारमाणिक्यहाराभ्यां भैमीकुचौ शोभेते इति भावः । अथ च पयोधरे मेघे रोहितश्रीः ऋजुशक्रधनुःशोभा प्रादुर्भवतीत्युक्तिः । 'हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः', 'इन्द्रायुधं शक्रधनुस्तदेव ऋजु रोहितम्', 'रोहितो लोहितो रक्तः', इत्यमरः । फेनिलः, मत्वर्थे 'फेनादि- लच्च' इतीलच्[१]

  निःशङ्कसंकोचितपङ्कजोऽयमस्यामुदीतो मुखमिन्दुबिम्बः ।

  चित्रं तथापि स्तनकोकयुग्मं न स्तोकमप्यञ्चति विप्रयोगम्॥७७॥

 निःशङ्केति ॥ यदेतन्मुखं अस्यां भैम्यामयं इन्दुबिम्ब एवोदीतः । किंभूतः--निःशङ्कं यथातथा बलात्कारेण संकोचितानि निमीलितानि, अथ च जितानि कमलानि येन । इदं मुखं न, किंतु चन्द्रोयमित्यर्थः । चन्द्रेण हि कमलानि संकोचन्ते मुखनैकट्यात्संकुचिते कमले एवैते, नतु कुचावित्यर्थः । तथाप्युदितेऽपि चन्द्रे स्तनलक्षणं कोकयुग्मं चक्रवाकयुग्मं कर्तृ स्तोकमप्यल्पमपि विप्रयोग वियोगं नाञ्चति न प्राप्नोति । मिलितमेव यत्तिष्ठति तच्चित्रमाश्चर्यम् । चक्रवाकयुग्मं चन्द्रोदये वियोगं प्राप्नोति, कुचलक्षणं नेत्याश्चर्यम् । चक्रवाककमलकलिकाकारावतिसंश्लिष्टौ चैतत्कुचाविति भा[२]वः ॥

  आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोर्न ताभ्याम् ।

  भयेन गोपायितमौक्तिको तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥७८॥

 आभ्यामिति ॥ आभ्यां प्रत्यक्षदृश्याभ्यां कुचाभ्यामिभकुम्भयोः श्रीः शोभा, संपञ्च बलादादीयते गृह्यते । इभकुम्भश्रियोऽत्र दर्शनादित्यर्थः । ताभ्यामिभकुम्भाभ्यां अनयोः कुचयोः असौ नादीयते । कुतो ज्ञातमेतदित्यत आह-यद्यस्मात् तौ इमकुम्भौ भयेन अर्थात्स्तनसकाशादेव भीत्या गोपायितमौक्तिकौ, इमो कुचौ तु प्रव्यक्तमुक्ताभरणौ प्रकटमुक्तालंकरणौ । मुक्ताग्रहणभियेभकुम्भाभ्यां स्वमुक्ता गोपिताः । इभकुम्माभ्यामध्यधिकं कुचौ रमणीयाविति भावः । अन्योपि भीतः स्वरत्नानि गोपायति, निर्भयश्व प्रकटय[३]ति ॥

  कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत् ।

  सर्व तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥७९॥



  1. 'अत्र छेकानुप्रासोत्प्रेक्षाश्लेषालंकाराः' इति साहित्यविद्याधरी । जीवातुर्नोपलब्धा ।
  2. 'अत्र विशेषोक्तिरूपके अलंकारौ' इति साहित्यविद्याधरी । “रूपकोत्थापितो विरोधाभास इति संकरः' इति जीवातुः
  3. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी