पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सप्तमः सर्गः।
२८७

 अधुना मानुषीत्वात्केशानारभ्यापादं वर्णनमारभते-

  अस्याः सपकविधोः कचौघः स्थाने मुखस्योपरि वासमाप ।

  पक्षस्थतावबहूहुचन्द्रकोपि कलापिनां येन जितः कलापः ॥२०॥

 अस्या इति ॥ सदृशत्वात्सपक्षो मित्रं सहायश्च एकः केवलो विधुश्चन्द्रो यस्य अस्या मुखस्योपरि शिरसि कचौधः केशसमूहो वासं वसतिमाप तत् स्थाने युक्तम् । कथमित्यत आह—येन कचौघेन पक्षस्थाः पक्षेषु स्थितास्तावन्तो वहवश्चन्द्रका यस्यैवंविधः कलापिनां मयूराणां कलापः पिच्छभारो जितः पराजितः । उत्तमोऽपि मयूरपिच्छभारो येन जितस्तस्यात्युत्तमत्वाच्छिरसि वसतियुक्तैवेत्यर्थः ॥

 श्लोकद्वयन केशानेव वर्णयति-

  अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम्।

  स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ २१ ॥

 अस्या इति ॥ अस्या भैम्या आस्येन वदनलक्षणेन शीतरुचा चन्द्रेण पुरोग्रतः तिरस्तिर्यक्च वर्तमानं यदन्धकारं तिरस्कृतमपसारितं पराजितं च तदेवेदं स्फुटं प्रकटं स्फुरन्तो विलसन्तो भङ्गिनो निम्नोन्नताः कचास्तेषां छलेन व्याजेन पश्चान्मुखस्य पश्चाद्भागे बद्धमस्ति । पुरस्तिरश्च यत्तिमिरं स्थितं ततोपसारितत्वात्पश्चाद्भागादपसारणे चन्द्रस्यासामर्थ्यादागत्य सङ्घीभूय पश्चाद्भागे स्थितिमकरोदित्यर्थः । विलसत्कौटिल्यो निबद्धकेशसमूहोयं न भवति, किं तु चन्द्रेण तिरस्कृतत्वाद्विलसत्पराजयचिह्नं पश्चाद्बद्धमन्धकारमेव । अन्योपि जातपराजयो धृतपराजयचिह्नः पश्चाद्बाहुर्बध्यत इति अतिनीलोतिकुटिलश्च भैमीकेशसङ्घ इति भावः । 'अन्धकारोस्त्रियाम्' इत्यमरः । भङ्ग' इत्यपि पाठः[१]

  अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् ।

  तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्वा स किमर्धचन्द्रम् ॥२२॥

 अस्या इति ॥ अस्याः कचानां केशानां शिखिनो मयूरस्य च कलापौ सङ्घपिच्छभारौ विमतेः अहमुत्कृष्टोहमुत्कृष्ट इति विवादाद्धेतोर्मध्यस्थत्वेन विधिं ब्रह्माणमगातां जग्मतुः । किंतु इति समुदायो वितर्के । तेन ब्रह्मणा अयं पुरोदृश्यमानः केशपाशः पुरोदृश्यमानैरेभिः पुष्पैरपूजि किं पूजितः किम् । स मयूरकलापश्चार्धचन्द्रं गलहस्तं दत्त्वा अभर्त्सि भर्त्सितः किम् । मध्यस्थेन ब्रह्मणा विवदमानयोस्तयोर्मध्ये केशकलापोत्युत्कृष्ट इति ज्ञापयितुं तस्य पुष्पपूजा कृता, मयूरकलापस्त्वतितरां हीनोऽतितरामधिकेन केशकलापेन सह स्पर्धमानोऽनुचितकारित्वाद्गलहस्तित इत्यर्थः । अर्धचन्द्राकाराश्चन्द्रका मयूरकलापे विद्यन्ते ततः शब्दच्छलेनेयमुत्प्रेक्षा । अन्योऽप्यधिको मध्य- -

  1. 'अत्र रूपकापह्नत्यलंकारः' इति साहित्यविद्याधरी।