पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
नैषधीयचरिते

  नास्पशि दृष्टापि विमोहिकेयं दोषैरशेषैः स्वभियेति मन्ये ।

  अन्येषु तैराकुलितस्तदस्यां वसत्यसापत्न्यसुखी गुणौधः ॥ १७ ॥

 नेति ॥ दृष्टापीयं भैमी द्रष्टुर्विमोहिका मदनविकारकारिणी, अथ च मूर्छाकारिणीति कृत्वा स्वस्यात्मनो भिया अशेषैः सकलैरपि दोषैरियं नास्पर्शि न स्पृष्टेति मन्ये अहं शङ्के । या दर्शनमात्रेण मूर्छां जनयति, दर्शनापेक्षयातिनिकटेन स्पर्शेन किं करिप्यतीति भयेन दोषैर्न स्पृष्टेत्यहं मन्ये इति भावः । अशेषैरितिशब्दादपिशब्दोऽध्याहार्य योज्यः । अन्यथा कियद्भिः स्पृष्टा इति विरुद्धप्रतीतिप्रसङ्गात् । यस्मादियं दोषैर्न स्पृष्टा तत्तस्मादन्येषु भैमीव्यतिरिक्तस्थानेषु तैर्दोषैराकुलितो गुणौधः शीलसौन्दर्यादिः न विद्यते सपत्नः शत्रुर्यस्य तस्य भावोऽसापत्न्यं तेन सुखी सन् अस्यां भैम्यां वसति । अन्यत्र वैरिभिः सह वसतौ महत्कष्टम्, अस्यां तु तद्भावात्सुखेन वसतीत्यर्थः । अन्येषु गुणा दोषसंवलिताः सन्ति, अस्यां तु दोषा न सन्त्येवेति गुणानां निःसापन्येन स्थितिः । अन्योऽपि सबाधं स्थानं त्यक्त्वा निर्वाधे स्थाने व[१]सति ॥

  औज्झि प्रियाङ्गैघृणयैव रुक्षा नवारिदुर्गातु वराटकस्य ।

  न कण्टकैरावरणाच्च कान्तिधूलीभृता काञ्चनकेतकस्य ॥ १६ ॥

 औज्झीति ॥ प्रियाङ्गैर्भैम्यवयवैः वराटकस्य बीजकोशस्य कान्तिः शोभा घृणयैव जुगुप्सयैव औज्झि अत्याजि । यतो रुक्षा स्निग्धत्वरहिता । न वारिदुर्गाजज्कृलदुर्गाद्धेतोः । असाध्यं जलदुर्गमाश्रितेति ग्रहीतुमशक्येति बुद्ध्या त्यक्तेति न मन्तव्यम् । किंतु रुक्षत्वात् । अथ वा आराणि दलानि सन्त्यस्य तदारि कमलं तल्लक्षणाद्दुर्गात् तन्मध्यवतित्वाद्धेतोर्नवा नैव । अथ च न कण्टकैरिति नजमुभयत्र संबध्य नवा प्रत्यग्रा कान्तिरिति व्याख्येयम् । अथ च कृपयैव त्यक्ता । तथा-काञ्चनकेतकस्यापि सुवर्णकेतकीकुसुमस्यापि कान्तिः प्रियाङ्गैर्घणयैवौज्झि । यतो धूलीभिर्भूता पूरिता । चोष्यर्थः । कण्टकैः कृत्वा यदावरणं परिवेष्टनं तस्माद्धेतोर्न । किं तु कृपयैवेति व्याख्येयम् । वराटकसुवर्णकेतकाभ्यामपि सकाशादतिस्निग्धगौरवर्णेयमिति भावः[२]

  प्रत्यङ्गमस्यामभिकेन रक्षा कर्तुं मघोनेव निजात्रमस्ति ।

  वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्युतिकार्मुकं च ॥१९॥

 प्रत्यङ्गमिति ॥ अभिकेन भैम्याः कामुकेन मघोनेन्द्रेण प्रत्यङ्गं प्रत्यवयवं दोषादेः सकाशाद्रक्षां कुर्तु भूषामणिमूर्तिधारि नेपथ्यरत्नवेषधारि निजास्त्रं स्वायुधं वनं च तथा तस्य वज्रस्य द्युतिस्तलक्षणं कार्मुकं च अस्यां भैम्यां विषये नियोजितमिव नियुक्तमिवास्ति । चौ परस्परसमुच्चये । प्रत्यवयवमलंकारेषु हीरकाः सन्ति तेषां द्युतिश्च सर्वत्र प्रकाशते । तत्र वज्रशब्दच्छलेन सहेतुकोत्प्रेक्षा । इन्द्रधनुषश्च वज्रद्युतिरूपत्वं प्रसिद्धम् । अन्योपि स्वाभीष्टं वस्तु रक्षितुं किमपि निजं नियुङ्क्ते । अस्यामभिकेनेति वा [३]


  1. 'अत्रोत्प्रेक्षालकारः' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षादीपकमलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र सापद्वोत्प्रेक्षालंकारः' इति 'साहित्यविद्याधरी।