पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
नैषधीयचरिते

 विज्ञप्तिमिति ॥ स नलः मध्येसभं सभामध्ये तस्या भैम्या आलिवृन्दैः सखीवृन्दैः इन्द्रदूती सम्यग्वदतीति अभिनन्द्यमानामभिनन्दितां वासवस्य सम्भली दूती तत्संबन्धिनीं भैम्याः विज्ञप्तिं सावधानः संभालयामास समाकर्णयामास । (किंभूतः सः-) भैमी वासवं प्रायेण वरिष्यतीति अन्तःसभयः मनसि भयसहितः । तथा--अस्या वचनं स्वीकरिष्यतीति तथा स्वसखीवचनं भैमी करिष्यत्येवेतिबुद्ध्या भैम्यां कृशाशः खण्डिताशः। 'संभली कुट्टनी समे' इत्यमरः । ज्ञपेर्ण्यन्ताद्युचि विज्ञापनेति यद्यपि भवितव्यं तथापि 'क्तिन्नाबादिभ्यश्च' इति वचनादात्यादयः प्रयोगतोऽनुसर्तव्या इति वचनाज्ज्ञप्तिरित्यत्र क्तिन्। पदमञ्जरीकारोप्येवमेव समर्थितवान् । मध्येसभम् , 'पारेमध्ये-' इत्यव्ययीभावे नपुंसकत्वे ह्रस्वः, एदन्तत्वं निपातनात् [१]

  लिपिर्न दैवी सुपठा भुवीति तुभ्यं मयि प्रेरितवाचिकस्य ।

  इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानैः ॥ ७७॥

 लिपीति ॥ हे भैमि, त्वं विज्ञापयन्त्यामिन्द्रस्य दूत्यां मयि अवधानदानैरेकाग्रचित्तत्वेन प्रसादं रचय कुरु । एकाग्रचित्तत्वमेव प्रसादः। किंभूतस्य--इति तुभ्यं त्वदर्थं प्रेषितं वाचिकं संदेशवचनं येन । इति किम्-भुवि विद्यमानेन लोकेन दैवी देवसंबन्धिनी लिपिः न सुपठा सुखेन पठितुं न शक्येति कृत्वा पत्रिका न दत्ता । सावधाना सतीन्द्रविज्ञापनामाकर्णयेत्यर्थः । वाचिकम्, 'वाचो व्याहृतार्थायाम्' इति स्वार्थे ठक्स्वार्थिकः । 'प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते वा' इति नपुंसकत्वम् । तथा -सेनैव सेन्यम्, मालैव माल्यम् । विज्ञापयन्त्याम् , घटादिपाठात्(ठेपि) 'मितां ह्रस्वः' इत्यत्र 'वा चित्तविरागे' इत्यतो वेत्यनुवृत्तेर्व्यवस्थितविभाषया 'विज्ञापना भर्तृषु सिद्धिमेति' इत्यादिमहाकविप्रयोगदर्शनाच्च ह्रस्वाभावात्साधुत्वं ज्ञेयम् [२]

  सलीलमालिङ्गनयोपपीडमनामयं पृच्छति वासवस्त्वाम् ।

  शेषस्त्वदाश्लेषकथापनिद्रैस्तद्रोमभिः संदिदिशे भवत्यै ॥ ७८ ॥

 सलीलमिति ॥ वासवः सलीलं सविलासमालिङ्गनया आश्लेषेणोपपीडमुपपीड्य गाढमालिङ्ग्य त्वामनामयमारोग्यं पृच्छति-हे भैमि, तव आरोग्यं विद्यते कच्चिदिति । 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रं पृच्छेदनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च॥' इति मनुवचनात् । तवाश्लेषकथया तवालिङ्गनकथावशात् अपनिद्रैर्विकसितैस्तस्य इन्द्रस्य रोमभिः कर्तृभिः शेषोऽवशिष्टोऽर्थो भवत्यै तुभ्यं संदिदिशे संदिष्टः । इन्द्रस्त्वय्येव सानुरागः, तस्मात्त्वयानुग्रहीतव्य इत्यर्थः । सात्त्विकभावोदयेन गद्गदकण्ठत्वादन्यत्किंचिन्न संदिदेशेत्यर्थः । 'लिगि चित्रीकरणे' चुरादिराङ्पूर्वः श्लेषणे, तस्माण्ण्यन्तत्वाद्युच् । उपपीडम् , 'सप्तम्यां चोपपीड-' इति णमुल् ॥

  यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां हियमापदागः ।

  स्वयंवरस्थानजुषस्तमस्य बधान कण्ठं वरणस्रजाशु ॥ ७९ ॥


  1. 'अत्र च्छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र हेतुरलंकारः' इति साहित्यविद्याधरी।