पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
षष्ठः सर्गः।

 य इति ॥ हे भैमि, त्वयाहमनुग्राह्य इत्यादि त्वदर्थनायां त्वदीययाच्ञायां विषये मघोन इन्द्रस्य मनसा प्रेर्यमाणोऽपि यः कण्ठो ह्रियं लज्जालक्षणमागोऽपराधमापत्प्राप। लज्जया किमप्यन्यन्नोक्तवानित्यर्थः। त्वं स्वयंवरस्थानजुषः स्वयंवरस्थानस्थितस्यास्येन्द्रस्य तं सापराधं कण्ठं वरणस्य स्रजा मालया आशु शीघ्रं वधान । सापराधो हि प्रभुणा दोरकेण बध्यते । त्वमप्यस्य प्रभुतुल्येत्यर्थः । एवं सानुरागमिन्द्रं वृणीष्वेति भावः॥ [१]

  नैनं त्यज क्षीरधिमन्थनाद्यैरस्यानुजायोद्गमितामरैः श्रीः ।

  अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते॥ ८० ॥  नैनमिति ॥ हे भैमि, त्वं एनं इन्द्रं मा त्यज । यैरमरैः क्षीरधिमन्थनादस्येन्द्रस्यानुजायोपेन्द्राय श्रीरुद्गमिता निर्गमिता, ते देवा इक्षुरसोदमिक्षुरससमुद्रं विमथ्य मथित्वा अस्मै इन्द्रार्थमन्यां श्रियमुत्थापयितुं निर्गमयितुं न श्राम्यन्तु । यैर्देवैः क्षीरसमुद्रं निर्मथ्य लक्ष्मीं निर्गमय्य सा इन्द्रानुजाय दत्ता, ज्येष्ठत्वात्तस्यापि पूज्यायेन्द्राय तैस्ततोप्यधिका दातव्या, सा इक्षुरससमुद्रमथनं विना न प्राप्यत इति तदर्थं तन्मथने तेषां प्रयासः स्यात् , त्वत्प्राप्त्या स प्रयासो मा भूत् । त्वं लक्ष्म्याः सकाशादतिसुन्दरी, एनं वृणीष्वेति भावः । अतिसौन्दर्येण त्वमेवेक्षुरससमुद्रसंभवा लक्ष्मीरित्यर्थः । इक्षुरस एवोदकं यस्य, 'उदकस्योदः संज्ञायाम्' इति उदभावः[२]

  लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः।

  किंकर्तुमर्थी यदि सोपि रागाज्जागर्ति कक्षा किमतः परापि ॥ ८१ ॥

 लोकेति ॥ हे भैमि, लोकस्रजि चतुर्दशभुवनमालायां द्यौर्महती स्वर्गोऽधिकः । दिवि च आदितेयाः युद्धसंमुखमरणादिप्राप्तदेवत्वापेक्षया अदित्यपत्यानि ये देवास्ते महान्तः। आदितेयेष्वपि महेन्द्रो महान् । सोऽपि एवंविध इन्द्रोऽपि रागादनुरागात् यदि तव किंकर्तुं किंकरीभवितुमर्थी । प्रार्थयत इत्यर्थः। नतु केनापि बलात्कारेण प्रवर्तितः । अतः परा अन्या कक्षा उत्कर्षः किं जागर्ति । नास्त्येवेत्यर्थः । इन्द्रोऽपि तव किंकरीभवितुमिच्छति अत एव तव तुल्या कापि सौभाग्यवती सुन्दरी च न विद्यत इति भावः । अदित्या अपत्यानि आदितेयाः, 'कृदिकारादक्तिनः' इति ङीषन्तात् 'दित्यदित्या-' इति ण्यं बाधित्वा 'स्त्रीभ्यो ढक्' इति ढक्[३]

  पदं शतेनाप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः।

  कुरु प्रसादं तदलंकुरुष्व स्वीकारकृद्भ्रूनटनश्रमेण ॥ ८२ ॥


  1. 'अत्र समासोक्तिरूपकालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रामराणां लक्ष्म्यन्तरोत्पादनप्रयत्नासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः।
  3. 'अत्र लोकादिषु पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षोक्तिः; अतः सारालंकारः' इति जीवातुः।