पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
पष्टः सर्गः।

  तन्वीमुखं द्रागधिगत्य चन्द्रं वियोगिनस्तस्य निमीलिताभ्याम् ।

  द्वयं द्रढीयः कृतमीक्षणाभ्यां तदिन्दुता च स्वसरोजता च ॥२६॥

 तन्वीति ॥ तन्व्या मुखं चन्द्रमवगत्य ज्ञात्वा अथ च वदनलक्षणं चन्द्रं प्राप्य द्राक झटिति निमीलिताभ्यां संकुचिताभ्यां वियोगिनस्तस्येक्षणाभ्यां नेत्राभ्यां द्वयं द्रढीयोऽतितरां दृढं कृतं सत्यं कृतम् । द्वयं किम्-तदिन्दुता तन्मुखचन्द्रत्वम्, स्वस्थ सरोजता कमलता च । चन्द्रप्राप्तौ कमलस्यैव संकोचो नत्वन्यस्य, चन्द्रप्राप्तावेव कमलस्य संकोचो नत्वन्यप्राप्तावित्यन्वयव्यतिरेकाभ्यां तदिन्दुत्वं स्वसरोजत्वं च । तन्वीमुखमं चन्द्रवद्रमणीयम्, नलनेत्रे च नीलोत्पलवद्रमणीये इत्यर्थः । परस्त्रीमुखावलोकनमयुक्तमिति नेत्रसंकोचः कृत इत्युत्तमत्वं सूचितम्[१]

  चतुष्पथे तं विनिमीलिताक्षं चतुर्दैिगेताः सुखमग्रहीष्यन् ।

  संघट्टय तस्मिन्भृशभीनिवृत्तास्ता एव तद्वर्त्म न चेददास्यन॥२७॥

 चतुष्पथ इति ॥ परस्त्रीमुखाद्यवलोकनभिया निमीलिताशं नलं चतुर्दिगेताः चतु- दिग्भ्यः समागताश्चतस्त्रः स्त्रियः चतुष्पथेपि तर्हि सुखमनायासमग्रहीप्यन्धर्तुमशस्यन् । चेद्यदि तस्मिन्नदृश्ये नले संघट्टय संघट्ट प्राप्य अदृश्यसंघट्टादेव भृशभिया जातमहा- भीत्या निवृत्ताः पुनःपुनर्निवृत्तास्ता एव पूर्वोक्ताः तद्वम॑ तस्य निर्गन्तुं मार्ग नादास्यन् व्यतरिष्यन् । परावृत्तत्वान्मार्गस्तस्मै दत्तः, ततो धर्तुं नाशक्नुवन्निति क्रियातिपत्तिः[२]

  संघट्टयन्त्यास्तरसात्मभूषाहीराङ्कुरमोतदुकूलहारी।

  दिशा नितम्बं परिधाप्य तन्व्यास्तत्पापसंतापमवाप भूपः ॥२८॥

 संघट्टेति ॥ भूपो नलः तन्व्याः कस्याश्चित् नितम्बं दिशा करणभूतया परिधाप्य । दिगम्बरं कृत्वेत्यर्थः । तेन परस्त्रीविवसनकरणेन जनितं यत्पापं तेन संतापं परमं दुःखमवाप प्राप । किंभूतायाः-संघट्टयन्त्याः संघटुं कुर्वत्याः। अत एव किंभूतः-परस्त्रीस्पर्शभिया तरसा परस्त्रीसंस्पर्शभिया झटिति निवृत्तत्वादात्मनो भूषा अलंकाराः तेषु हीरकाः, तेषामङ्कुराः कोटयः तत्र प्रोतं स्यूतं दुकूलं हरति एवंशीलः । स्यूतत्वा- स्वत एवागच्छतो दुकूलस्य नेता । अबुद्धिकारित्वेप्यतितरां मयैतदनुचितं कृतमिति संतापादुत्तमत्वं सूचितम्[३]

  हतः कयाचित्पथि कन्दुकेन संघट्टन्य भिन्नः करजैः कयापि।

  कयाचनातः कुचकुङ्कुमेन संभुक्तकल्पः स बभूव ताभिः ॥२९॥

 हत इति ॥ स नलः पथि चतुष्पथरूपे कयाचित्सुन्दर्या कन्दुकेन हतः अन्यस्यै प्रहितः


  1. 'अत्र रूपकहेत्वनुमानातिशायोक्त्यलंकारसंकरः' इति साहित्यविद्याधरी
  2. 'अत्र काव्यलिङ्गभावोदयालंकारसंकरः' इति साहित्यविद्याधरी।
  3. 'अत्र छेकानुप्रासकाव्यलिङ्गभावोदयालंकारसंकरः' इति साहित्यविद्याधरी।