पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
नैषधीयचरिते

ल-्जा तु अन्यतो भवति, तत्कथं लज्जित इत्यत आह-सतां साधूनां परतः सकाशास्वतो ह्रीर्लजाऽतिगुर्व्यतिमहती भवति । स्वतो यावती लज्जा भवति तावती परतो न । तस्माददृश्यत्वेन कटाक्षावलोकनेन स्वयमेव ललज्जेत्य[१]र्थः ॥

  रोमाञ्चिताङ्गीमनु तत्कटाक्षैर्भ्रान्तेन कान्तेन रतेर्निदिष्टः ।

  मोधः शरौघः कुसुमानि नाभूत्त्द्धैर्यपूजां प्रति पर्यवस्यन् ॥२३॥

 रोमेति ॥ नलाङ्गसङ्गागोमाञ्चिताङ्गीं स्त्रियमनु लक्षीकृत्य तस्य नलस्य कटाक्षैः एता- वपि परस्परमनुरक्ताविति भ्रान्तेन रतेः कान्तेन कामेन परस्परसंभोगार्थं निदिष्टः क्षिप्तः कुसुमानि पुष्पलक्षणः शरौघः मोघो निष्फलो नाभूत् । यतः-तस्य नलस्य धैर्यपूजां प्रत्युद्दिश्य पर्यवस्यन्संजाततात्पर्यः । मुख्यप्रयोजनाभावेऽपि नलसदृशः कोऽपि धीरो नास्तीति तद्धैर्यपूजायामुपयोगात्पुष्पसाफल्य[२]म् ॥

  हित्वैव वर्त्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।

  चतुष्पथस्याभरणं बभूव लोकावलोकाय सतां स दीपः ॥ २४ ॥

हित्वेति ॥ एकं वर्त्म एकपदी हित्वा त्यक्त्वैव इहैकपद्यामन्तःपुरे वा भ्रमन्त्या विचरन्त्याः स्त्रियाः स्पर्शः सुत्यजः सुखेन त्यक्तुं शक्यते नान्यथा इत्यवेत्य विचार्य सतां साधूनां प्रकाशरूपत्वाद्दीप इव दीपः स नलः लोकानां कर्मीभूतानां पुरलोकानामवलोकाय चतुष्पथस्य चतुर्णी पथां चतुर्दिग्भ्यः समागतानां मार्गाणामेकत्र समाहारः यस्मिन्स्थितेन लोकेन चतुर्दिग्भ्यः समागतो जनो दृश्यते तस्याभरणं बभूव । दीपोऽपि लोके लोककर्तृकायावलोकनाय चतुष्पथस्याभरणं भवति । चतुष्पथम् , समाहारे 'पथः संख्याव्ययादेः' इति नपुंसकत्वम् [३]

  उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद्रुतैव ।

  वियोगिवैरात्कुचयोर्नखाङ्कैरर्धेन्दुलीलैर्गलहस्तितेव ॥ २५ ॥

 उद्वर्तेति ॥ नृपस्य दृष्टिरुद्वर्तयन्त्याः समालम्भनं कुर्वत्याः कस्याश्चिद्धृदये उरसि निपत्य द्रुतैव वेगसहितैव न्यवृतत्परावृत्ता । परस्त्रीकुचदर्शनभियेत्यर्थः । उत्प्रेक्षते- कुचयोर्विद्यमानैः अर्धेन्दुलीलैरर्धचन्द्राकारैः नखादैर्नखक्षतैः वियोगिनो नलस्य वैरागलहस्तितेव । गले हस्तो गलहस्तः संजातो यस्याः । तारकादित्वादितच् । नखाङ्कदर्शनं चन्द्रदर्शनं च विरहिणोऽसह्यमिति शत्रुत्वम् । गलहस्तितो हि झटिति परावर्तते । न्यवृतदिति 'धुद्भ्यो लुङि' इति परस्मैपदे धुतादित्वादङ्[४]


  1. 'अत्र काव्यालङ्गोपमार्थान्तरन्यासालंकारसंकरः' इति साहित्यविद्याधरी
  2. 'अत्र काव्यलिङ्गमलंकारः इति साहित्यविद्याधरी । 'अत्र नलधैर्यभङ्गाय प्रयुक्तकुसुमशरजालस्य न केवलं तद्भञ्जकत्वम्, प्रत्युत तत्पूजकत्वमापन्नमित्यनर्थोक्तिरूपो विषमालंकारः' इति जीवातु:
  3. 'अत्र काव्यलिङ्गमलंकारसंकरः' इति साहित्यविद्याधरी।
  4. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी