पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। १२१ शातं भैम्या नलो न प्राप्स्यत इति । अपि तु न केनापि । एवंसति कदाचित्तत्प्राप्तिसंभावनापीत्याह –तावदादौ त्वं न जातं पाणिग्रहणं विवाहो यस्याः सा एवंभूतासि वर्तसे । प्रथममेव नैराश्यं न कर्तव्यमित्यर्थः । मम योग्यताभावश्चेत्तत्प्राप्तिः कथं स्यादित्याश्ग्क्याह-रूपस्य लावण्यस्य स्वरूपेणैवालंकारमन्तरेणैव स्वाभाविकोऽतिशयस्तस्याश्रयः स्थानमप्यसि । सहजसौन्दर्येण नलप्राप्तिरपि तव संभाव्यत इति भावः॥ सरूपत्वात्तस्या नलप्राप्तिं द्रढयति- निशा शशाङ्कं शिवया गिरीशं श्रिया हरिं योजयतः प्रतीतः। विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय ॥४॥ निशेति ॥ निशा रात्र्या शशाङ्कं चन्द्रं, शिवया गौर्या गिरीशं, श्रिया लक्ष्म्या हरिं विष्णुं, योजयतः संयोगं प्रापयतो विधेरपि ब्रह्मणोऽपि स्वारसिकः स्वेच्छाकारी प्रयासः प्रयत्नः परस्परं मिथो योग्ययोः समागमाय मेलनाय प्रतीतः ख्यातः । पूर्वोक्तदृष्टान्तेन ब्रह्मा स्वरसत एव परस्परं योग्ययोरेव समागमं करोति नत्वयोग्ययोरिति, अतो नलमपि त्वयैव योजयिष्यतीति भावः । स्वरसेन चरतीति स्वारसिकः । 'चरति' इति ठक् । स्वशब्दस्य द्वारादिषु पठितत्वात्तत्र तदादिविधेरभ्यनुज्ञानात्सौवर- सिक इति यद्यपि भवितव्यं तथापि स्वागतादिषु दर्शनात्स्वार्थिकस्वाभाविकादि. भाष्यकारप्रयोगदर्शनाच्च वृद्धिरेवेति बोध्यम् । एवमन्यत्रापि द्रष्टव्यम् ॥ अन्यनिराकरणे नलस्यैव त्वं योग्येत्याह- वेलातिगस्त्रैणगुणाब्धिवेणिर्न योगयोग्यासि नलेतरेण । संदर्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन ॥ ४९ ॥ वेलेति ॥ वेलां मर्यादामतिक्रम्य गच्छति एवंभूतो यः स्त्रैणः स्त्रीसंबन्धी गुणाब्धिः सौन्दर्यादिगुणसमुद्रस्तस्य वेणिः प्रवाहरूपा समस्तसौन्दर्यादिगुणभाजनं त्वं नलादितरेण वरेण सह योगयोग्या संबन्धयोग्या नासि न भवसि । यतः-मृद्वी मल्लीमाला पुष्पमाला भृशकर्कशेनातिकठिनेन दर्भगुणेन कुशनिर्मितदोरकेण न संदर्भ्यते ग्रथ्यते । मल्लीमालायाः कुशदोरकेण गुम्फनमनुचितं तथा तव नलव्यतिरिक्तेन योग इति भावः । 'वेणिर्नदीप्रवाहे कचोच्चये' इति क्षीरस्वामी । स्त्रीसंबन्धिनः स्त्रैणाः 'स्त्रीपुंसाभ्यां-' इति नञ् । वेणीति संबुद्ध्यन्तं वा । तत्र नद्यन्तत्वाथ्रस्वः। मृद्वी 'वोतो गुण-' इति ङीष् ॥ तस्या नलप्राप्तौ प्रकारान्तरेण हेतुमाह- विधिं वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् । त्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रिचक्रे ॥५०॥ १ 'अत्र सममलंकारः' इति साहित्यविद्याधरी । २ 'अत्र रूपकसमदृष्टान्तालंकारसंकरः' इति साहित्यविद्याधरी । 'व्यतिरेकेण दृष्टान्तालंकारः' इति जीवातुः ।