पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
नैषधीयचरिते

नैषधीयचरिते विधिमिति ॥ अहं तस्य विधेर्यानं विमानं तस्य धुर्यो भारवाहकः सन् नलकेलेर्नलक्रीडाया योग्यामुचितां वधूसृष्टिं नलक्रीडायोग्या का त्वया निर्मितेति स्त्रीसृष्टिं विधिं ब्रह्माणमपृच्छमेव पृष्टवानेव । तेन किमुत्तरितमित्यत आह नलकेलियोग्या भैमी रचितेति तव नाम्नो वर्णा इव कर्णाभ्यां पीता उत्तरत्वेन मया श्रुताः । सम्यगेव किमिति न श्रुता इत्यत आह-कस्सिन्सति-अस्य 'ब्रह्मणश्चक्रिणो रथस्य चक्रे संक्रीडति कूजंति सति । रथाङ्गकूजनेन सम्यङ्नाकर्णीति भावः । यदि निश्चयेनावश्यत्तदा स्वत एव कार्यसिद्धस्तदर्थं स्वस्मिन्सादरा नाभविष्यदितीवशब्दप्रयोगः । चक्रचक्रे हंससमूहे इति क्वचित् । युग्यः 'तद्वहति-' इति यत् । संक्रीडति 'समोऽकूजने' इति प्रतिषेधाच्छता॥ ब्रह्मणः स्ववचनान्यथाकरणे बाधकमाह- अन्येन पत्या त्वयि योजितायां विज्ञावकीर्त्या गतजन्मनो वा। जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरीः स्यात्॥५१॥ अन्येनेति ॥ वा अथवा। निश्चये वा । त्वयि अन्येन नलातिरिक्तेन पत्या भार्त्र योजितायां सत्यां विज्ञत्वकीर्त्या सर्वज्ञत्वयशसैव गतमतिक्रान्तं जन्म यस्य येन वा एवंविधस्य विधातुर्जनापवाद एवार्णवस्तं सर्वज्ञेन ब्रह्मणेदमनुचितं कथमकारीति लोकापवादसमुद्रमुत्तरीतुं कतमा विधा प्रकारस्तरीनौका स्यात् । अपितु न कापीत्यर्थः । सकलेनापि जन्मना यत्सर्वज्ञत्वं ब्रह्मणार्जितं तदेकस्यास्तवान्यथाकरणे तदैव गमिष्यतीति भिया नलेनैव योजनीयेति भावः। समुद्रं तरीतुं काचिन्नौर्भवति, जनापवादार्णवं त- रीतुं न कापीति भावः । 'स्त्रियां नौस्तरणिस्तरीः' इत्यमरः। उत्तरीतुम् 'वृतो वा' इति दीर्घः । तरन्त्यनया तरीः 'अवितृस्तृतन्त्रिभ्य ई: ॥ आभिप्रायं ज्ञातुमुपसंहरन्नाह- आस्तां तदप्रस्तुतचिन्तयालं मयासि तन्वि अमितातिवेलम् । सोऽहं तदागः परिमार्ष्टुकामः किमीप्सितं ते विदधेऽभिधेहि ५२ आस्तामिति ॥ हे भैमि, तन्नलवर्णनं तव तद्योग्यत्वप्रतिपादनं चास्तां तिष्ठतु। न कर्तव्यमित्यर्थः । यतः-अप्रस्तुतस्य चिन्तया कथयालम् । निष्प्रयोजनत्वात्। हे तन्वि, मया त्वमतिवेलं भृशं श्रमितासि । सोऽहं तदागः अपराधं परिमार्ष्टुकामोऽपनेतुकामः सन् तव किमीप्सितं कं मनोरथं विदधे करोमि अभिधेहि ब्रूहि । अप्रस्तुतचिन्तयेति वारणार्थयोगे तृतीया ॥ इतीरयित्वा विरराम पत्री स राजपुत्रीहृदयं बुभुत्सुः । हृदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः ॥५३॥ १ रथाङ्गसमूहे' इति तिलकजीवातुसाहित्यविद्याधरीसंमतम् । २ 'अत्र छेकानुप्रासोपमा' इति साहित्यविद्याधरी। ३ 'अत्रानुप्रासरूपके' इति साहित्यविद्याधरी । ४ 'अत्रानुप्रासः'

इति साहित्यविद्याधरी।