पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४३
द्वाविंशः सर्गः।


रुते । न परं पूर्वोक्तगुणविशिष्टो ब्रह्मविदेव, किंतु-यदीयं काव्यं मधुवर्षि अतिसरसत्वादमृतवपि । न परं पूर्वविशेषणविशिष्टोऽतिसरसो महाकविरेव, किंतु-तर्कशास्त्रेष्वपि यस्योक्त्तयः धर्षिताः पराभूताः परे प्रतिवादिनो याभिस्तादृश्यः । तस्य विद्वच्चक्रचूडामणेः श्रीहर्षकवेरियं काव्यरचनारूपा कृतिः कृतिनां सुधियां मुदे आनन्दायाभ्युदीयात् कृतिनामानन्दं कुर्वती सत्याकल्पमतिवृद्धिं प्राप्नुयादित्याशीः । सर्वत्र यच्छब्दनिर्वाहो गुण एव । अभ्युदीयादिति ई गतौ' इत्यस्य रूपम् ॥

सन्तः सन्तु परप्रयोजनकृतः कल्पद्रुमन्तः सदा
स्वम्मिन्नेव पथि प्रवर्तनपराः सत्कीर्तयश्चापरे ।
अन्य निस्पृहणाः श्रितश्रुतिपथा दीव्यन्तु भव्याशया
काकन्तः कलहप्रियाः खलजना जायन्तु जीवन्तु वा ॥
वासनामस्य रामस्य किंकरस्य जगत्पते ।
नो चेत्पूरय, कल्पेशकल्पस्य तव किंकरः ॥

इति श्रीवेदकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नेषधीयप्रकाशे द्वाविंशः सर्गः समाप्तः॥

समाप्तश्चायं ग्रन्थः॥

शुभम्