पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
श्राद्धसारे हविर्द्रव्यनिर्णयः

निष्पावाश्चात्र शोभना” इति मार्कण्डेयपुराणवचनं तु कृष्णेतर
निष्पावविषयतया व्यवस्थापितं स्यात् ।
मरीचिरपि

‘‘कुलत्थाश्चणकः श्राद्धे न देयाश्चैत्र कोद्रवाः ।
कटुकानि च सर्वाणि विरसानि तथैव च' इति ।

तथा मदालसावाक्यम्

यच्चोत्कोचादिना प्राप्तं पांतताद्यदुपार्जितम् ।
अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विवर्जितम् ।
पित्रर्थ मे प्रयच्छ त्वमित्युक्त्वा यदुपाहृतम् ।
वर्जनीयं सदा सद्भिस्तत्तद्वै श्राद्धकर्मण इति ॥

उत्कोचादिनेत्यत्रादिना स्तेयादिग्रहणम् । गोमिथुनादधिक

कन्याशुल्कोमन्यायकन्याशुक्लोत्थमत्र श्राद्धकर्मणि विगर्हितं विवर्जितम्।
तथा

वेदविक्रयजं नेष्टं स्त्र्याि यच्चार्जितं धनम् ।
न देयं पितृदेवेभ्यो यच्च क्लीबादुपार्जितम्’ इति ।

विष्णुपुराणेऽपि ।

‘‘भूस्तृणं सुरसा शिशुः पालङ्कया सुसुकं तथा ।
कूष्माण्डालाबुवातककोविदारांश्च वर्जयेत् ” इति ।
भूस्तृणो भूतृणः छन्दसत्वात् सुडागमः।

उशना अपि --

“नालिका शणछत्रांककुसुम्भालाबुविड्भवान् ।
कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत्’ इति ॥