पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


६२
नृसिहप्रसादे

वर्जयेद् गृञ्जन श्राद्धं काञ्जिक पिण्डमूलकम् ।
करञ्जं येऽपि चान्ये वै रसगन्धोत्कटास्तथा" ” इति ।

दोघानाला नालिका अग्रभागेऽपल्लवा । शणछत्राकं

शिलीन्ध्रः, कुम्भी श्रीपणिका । कम्बुक वृन्तालाबुकम् । जनं
विषलिप्तशत्रहतं मृगमांसम् ।
तदुक्तम् -

‘विषलितेन शस्त्रेण मृगो यः परिहन्यते ।
अभक्ष्य तस्य तन्मांस तद्धि वै गृञ्जनं स्मृतम् इति ।

अथवा रक्तनाल गृञ्जनम् ।

तदुक्त सुश्रुतं --
“रक्तनालं गृञ्जनकमिति । रक्तकन्दविशेषो गृञ्जनम् ।
स च पलाण्डुविशेषः । इदं गृञ्जनं सर्वथाऽभक्ष्यमेव ।
तथा पुराणे

“लशुनं गृञ्जनं चैव पलाण्डं पिण्डमृलकम् ।
कलम्बान्यपि चान्यानि हीनानि रसगन्धतःइति ।

केचित्तु शब्दार्थानभिज्ञा गृञ्जनभ्रान्त्या गाजरमभक्ष्यं मन्यन्ते

तद्विचारासहम् , भक्ष्यमूलेषु गाजरस्य पाठात् ।
तदुक्तं ब्रह्माण्डपुराणे

‘‘वैकङ्कतं नारिकेलं शृङ्गाटकपरूषकं ।
पिप्पली मरीचं चैव कपलं बृहतीफलम् ।
नारङ्ग चात्र वै देयं दीर्घमूलकमेव वेति ।
तच्च मूलकं चतुर्विधम् । यदवोचद्धन्वन्तरि.