पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
नृसिहप्रसादे

न परस्मरमञ्जर्याः स्युर्न श्राद्धे ऋत्विजस्तथा ॥
ऋत्विक् पुत्रादयोऽप्येते सकुल्या ब्राह्मणा द्विजाः।
वैश्वदेवे नियोक्तव्या यथैते गुणवत्तराः।

इति हव्येन पूजनं तेनैव विहितम् । गुणवांश्चेद् ब्राह्मणो न

लभ्यते तदा सोदयोंऽपि भोजयितव्यः। तथा चापस्तम्ब —‘‘एवं च
गुणवदवलाभे सोदयोंऽपि भोजयितव्य इति । तस्याप्ययमेवाभि
प्रायो लक्ष्यते, वैश्वदैविकब्राह्मणस्थान एवेति, अन्यथा वाक्या
नर्थक्यापतेः

‘पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः।
मातृपक्षस्य पिण्डेन सम्बन्धो यो जलेन वा ।
कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्या क्रिया नृप ।
सपिण्डान्तर्गते वाऽपि कार्याः प्रेतस्य याः क्रियाः " इति ।

किञ्च गुणवत्तरत्वाव् उक्तहेतुना षट्पुरुषाधिकसगो

त्राणामश्राद्धार्हत्वाङ्गीक्रियमाणे षड्भ्यस्तु परतो भोज्या इति
षट्पुरुषोर्वपुरुषोत्पन्नसगोत्राणा गुणवत्तरत्वाभावेऽपि आर्द्र
यतार्था प्राप्नोति, सत्यं, सगोत्रा ये श्रद्धेयास्ते गुणवत्तरत्वेन वा
समन्विताः श्राद्धे ग्राह्याः, ये तु सगोत्रा अश्राद्धेयाः, ते गुणवत्वेन
विहीना अपि इत्यतितरां विरूढं स्यात् । अतः षट्पुरुषेभ्योऽर्वाक्
सगोत्राः पैतृकश्राद्धे नाहःवैश्वदेविके त्वङ्गः, ततः परे तु पैतृके
ऽप्यहं इत्यत्र वाक्यार्थः ।
इदं च सर्वमपि गोत्रापेक्षयाऽधिकगुणानां समगुणानां वा स