पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४३
श्राद्धसारे पात्रांनणयः।

षः —‘युद्धायत्योः संपराय’ इति । ततश्च पूवोंक्तकल्पाभावे भाग नेयादयो ग्रायाः । तदुक्त मिताक्षरायाम् - एते स्वस्त्रीयादयः पूर्वा क्तश्रोत्रियाद्यभावे वेदितव्या इति । विष्णुपुराणेऽप्यनुकल्य उक्तः

“पितृव्यगुरुदौहित्रान् ऋस्विस्रियमातुलान् ।
पूजयेद्धव्यकव्येनः इति ।

वृद्धानतिथिवान्धवान्’ इति । स्वस्रियो भागिनेयः स्या

दि”ति । पितृष्वजं च हव्येन पूजयेत् , इतरांश्च गुरुदौहित्रादीन्
कव्येनेति ।
न स गोत्रे हविर्दद्याद्यथा कन्या तथा हविः" इत्यादिभिः
सगोत्रे आद्धनिषेधात् कथं पितृव्योपादानम् । सत्यमेवैतद ज्ञानम् ,
न त्वभिन्नानाम् । तथा हि-षड्भ्यः पुरुषेभ्योऽर्वागयं निषेधो न
सार्वत्रिकः ।

“षड्भ्यस्तु पुरुषेभ्योऽगाद्भयास्तु गोत्रिणः ।

षड्भ्यस्तु परतो भोज्याः श्राद्धे स्युगोत्रजा अपि’ इति

स्मरणात् । अनेनैवाभिप्रायेण तरप्प्रत्ययरहितत्वेन गुणवन्मात्र
त्वमादाय भोज्या गुणवन्त इति गौतमोऽपि स्सृतवान् । ततश्च षट्
पुरुषोत्पन्नसपिण्डानां । पित्राद्युद्देशेन भोजनयत्वमसम्मतम्, नतु
वैश्वदेवोद्देशेनापि ।
तथा

“पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः ।