सामग्री पर जाएँ

पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
नृसिहप्रसादे

“त्रिशुक्लः कृशवृत्तिश्च धृणालुः सकलेन्द्रियः।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते इति ।

त्रिशुक्लपदञ्च तेनैव व्याख्यातम्

‘‘एवमन्वयशीलाभ्या वृत्तेन च समुच्छूिताः ।
त्रिशुक्ला नाम विप्रेन्द्राः पूज्यन्ते दैवतैरपि' इति ।

सतो जन्मावाप्तिरन्वय इत्यभिधायते, विनयादिसम्पच्छील

सता वृत्तं शौचाचाराद्यात्मकम् । एतैस्त्रिभिः मुगोपितैरन्विताः त्रिशु
क्ला अभिधीयन्ते । ते च दुर्लभाः, अत उक्तं दैवतैरपि पूज्यन्ते इति।
मनुः -

‘‘अग्न्याः सर्वेषु वेदेष्विति ।

अयमर्थ --सर्वेषु वेदेषु ऋग्यजुःसामसु संशयानुपत्ति विधातुं

क्षमा इति अग्रवाः । न केवलं वेदेषु अपि तु प्रवचनेषु अपि
भोच्यन्ते व्याख्ययन्ते यैर्वेदास्तानि प्रवचनान्यमङ्गानि निरुक्त
व्याकरणादीनि, तेष्वग्रया इति । न केवलमश्रयाःअपि तु श्रो
त्रियान्वयजावेद् भवन्ति ते पङ्किपावना इति ।
तथा योगियाज्ञवक्रय

‘‘अश्याः सर्वेषु देवेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः” इति (१।११३) ॥

अयमर्थ –सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाऽस्ख

लिताध्ययनक्षमाः अग्रयाः, श्रुताध्ययनसम्पनः श्रोत्रियः, ब्रह्म
परमात्मरूपं वेत्तीति ब्रह्मवित् , युवा मध्यमवयस्क, मन्त्रब्राह्म