पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
श्राद्धसारे पत्रानगायः ।।

न श्राद्धे भोजयेन्मित्रं धनैः कार्याऽस्य संग्रहः ।
नारि न मित्र यं विद्यतं श्राद्धे भोजयेद् द्विजम् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवीषि च ।
तस्य प्रेत्य फल नास्ति श्राद्धेषु च विष्णु च।

इति निन्दार्थवादादपि नाय पक्षः साधीयानिति । एतादृश

विप्रेषु सदाचारवैकल्यदर्शनेऽपि निन्दा न कार्या ।
तदुक्तम्

‘युगे युगेषु हि धर्मास्तेषु तेषु च येद्विजाः ।
तेषा निन्दा न कर्तव्या युगरूपा हि ते द्विजाः इति ।

तथा भविष्येऽमि

वैश्वदेवेन ये हीना आतिथ्येन च वर्जिताः ।
ते सर्वे वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः" इति ।
तस्मादमन्त्रं परित्यजेत्, मन्त्रज्ञ भोजयेदिति युक्तम् ।
“एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि । ।

इति स्मरणात् ( मनु० ३ १२६) ।

सहस्र हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान्मत्रवत्प्रीतः सर्वानर्हति धर्मतः” इति ।

अनूचामतृविदामवेदार्थविदानुपलक्षणमृचःयतो हि ते प्रा

सा एव न सन्ति ‘श्रोत्रियाय एवेति नियमात् (मनु० १२८) ।
छन्दसत्वादेकवचनम् ।