पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


ब्रह्म हिरण्यगर्भः ब्राह्मणानसृजतन् कल्पादों तपस्तप्त्वा, किमर्थं वेदरक्षार्थं पितृण देवताना तृप्यर्थतद्रा धर्मसंरक्षणार्थ च । अतस्तेभ्यो दत्तमक्षयफलमिति भावः । तथा—

‘सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्यो ह्यध्यात्मवित्तमाः इति ।

सर्वेक्षत्रियाद्यपेक्षया उत्कृष्टत्वं जातिकर्माभ्यां ‘ष्ट्यं, तत्र

ब्राह्मणाः श्रेष्ठाः श्रुताध्ययनसम्पन्नाः, तेभ्योऽपि क्रियापराः विहिता
नुष्ठानशालिनः । तेभ्योऽप्यध्यात्मवित्तमाः। शमदमादितत्वेनात्म
ज्ञाननिरताः श्रेष्ठाःततश्च जाति विद्याद्यनुष्ठानतपसां समुच्चयः पात्रता
सम्पत्तिहेतुः। प्रत्येकमपि हेतुतेति केचिन्मन्यन्ते । अपरे तु--वृत्त
विद्यतपांसि पात्रतासम्पादकानीत्याह । तदाह

‘‘न विद्यया केवलया तपसा वाऽपि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम्’ इति ।

वृत्तमनुष्ठानम् । तत उक्तलक्षणे पात्र एव देयता, पात्रे गो

भूतिलहिरण्यादि दातव्यमिति ।

“ना पात्रे विदुषा किचिदात्मनः श्रेय इच्छता ।

इति स्मरणात् ।

छागलेयोऽपि

‘‘सर्वलक्षणसंयुक्तैर्विद्याशीलगुणान्वितैः।
पुरुषत्रयविख्यातैसर्व आर्द्र प्रकल्पयेत्’ इति ।