पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
श्राद्धसारे जीवत्पितृकश्राद्धम् ।।

नामकर्मणि बालाना चूडाकर्मादिके तथा ।
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगण पूजयेत्प्रयतो गृही ।

इत्यादि वचनजातस्य कथमस्मिन्पक्षेऽर्थवत्वम् ? सत्यं, वृद्धि

आठं तावदित्थं मातृमातामहसम्बन्धिश्राद्धद्वयं कुर्यात् , पितृना
न्दीमुखे नाधिकारो न जीवमन्तमतिक्रम्येत्याद्युक्तेः । तथा —

“नानिष्ट्वा तु पितृन् श्राद्धे वैदिकन्तु समाचरेत्’’ इति ।

पितरि जीवति मातरि च जीवन्त्यमेके मातामहश्राद्धेषु देवपितृमा

तृमातामहेषु त्रिष्वपि जीवत्सु केवल मातृमातर एव पूज्यन्ते । ततः का
त्यायन–पतोक्तं पतिीविनां जीवत्पितृकाणां साग्नीना निरग्नीनामपि
मैत्रायणीत्रातिक्रमो नास्तीति वृत्तम् ।
अथाश्वलायनाना जीवत्पितृकाणनान्दीमुखनिर्णयः सक्षेप
तोऽभिधीयते । तत्र तत्सूत्रेऽनेके पक्षाः । तत्र गणिगारि-सम्मतः
पक्षः। येषां पितृपितामहानां ये प्रेताः तत्तदुद्देशेन पिण्डानिपृणु
यात् । जीवतान्तु प्रत्यक्षमर्चनम्, अस्य कर्मणः पित्रर्थत्वात् ।
अथ तौल्वलिसम्मतोऽयं पक्षः-यद्यपि जीवान्तर्हिताः, तथाऽपि
पितृभ्यः प्रेतेभ्य एव दद्यादिति न जीवतामलु, निषिद्धत्वात् ।
तथोक्तं भविष्यति

‘‘प्रत्यक्षमर्चनं श्राद्धे निषिद्धं मनुरब्रवीत् ।
पिण्डनिर्वपणं वाऽपि महापातकसम्मितम्’ इति ।

अथ गौतममतम् । पित्रादीनां त्रयाणां मध्ये जीवतोऽपि पिण्ड दानमिति । एवं परस्परविरुद्धं पक्षत्रयम् । अत्रायं तात्विकः