पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२४
नृसिहप्रसादे

सिद्धान्तः-यदत्रादि परेभ्यो दशदिति तदसम्वद्धं न कर्तव्यम् । यदवादि गणगारिणा पित्रर्थत्वात्कार्यमिति तदपि न, अनधिका रिवान् । यदवादि ताल्वलना जीवादन्तर्हितेभ्यो न निपृणुयादिति तन्न । उक्तहेतोः । यदवादि जीवद्रथो न निपुणुयादिति, तदपि न, उक्तहेतोः । ततश्च प्रत्यक्षार्चनमाप तता न कार्यम् । अनधिकारिणा यदत्रादि जोवेभ्योऽपि निपृणुयादिति तदष्यसत् , प्रागुक्तादेव हेतोः। यदप्युक्तं जीवान्तर्हितेभ्यो निपुणुयादिति तदपि न, उक्तादेव हेतोः। अत्रायमनुष्ठानक्रमः–ये हि पितुत्रये भवन्ति तेभ्यः पिण्डान्दद्याज्जुहु यात् । एतेभ्य एव वह्निपि निपृणुयादिति । यस्य तु सर्वे जीवन्तो भवन्ति तम्य सर्वहुत हविर्भवं । अथ छन्दोगानां निर्णयः । तत्र कात्यायन.

‘‘सपितुः पितृकल्पेषु अधिकारो न विद्यते इति ।

अथ मातामहश्राद्धमभिधीयते, तदपि जीवत्पितृककर्तृकमेव ।

इदं चाश्विनशुक्लप्रतिपदि शिष्टाचारादनुष्ठेयम् । शिष्टैराचर्य
माणाना सता। गोदोहनादिवत्फलसम्बन्धमप्राप्तं बोधयच्छूत्रर्मार्थ
वदिति तस्यापि प्रभाणमभिधानात् । अत एवावश्यकम्

‘मातुः पितरमातरभ्य त्रयो मातामहाः स्मृताः ।
तेषां तु पितृवच्छुद्धं कुर्युर्मुहितृमूनवः" इति

पुलस्त्यस्मरणात् । पितृवदित्यनेन पार्वणविध्यन्तवत्ता खचिता ।

अत्र विशेषवचनानि पुराणेषुपलभ्यन्ते

‘कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु ।
कुर्यान्मातामहानां च तथैवानृण्यकारणात्" इति ।