पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
नृसिहप्रसादे

तथा म्मृत्यन्तरे

“कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत्स्वधाकारं नतु वेदाक्षरण्यसौ' इति ।
सुमन्तुना वेदाक्षराण्यपि प्रयोज्यानीत्यभिहितम्
“नाभिव्याहारयेद् ब्रह्म यावन्मौञ्जी निवध्यते ।
मन्त्राननुपनीतोऽपि पठदेवैक ओरसः? इति ।
ततः पुत्रोऽधिकारी, सोऽपि मुख्यो गौणश्च, तदभावे पत्न्यादि.
तदपि पौत्राद्यभावे ।
“पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभो ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ' इति ।
गुरु पौत्रं गौणपुत्रसमानमुक्तावनिति सर्वमुक्तम् ।
इति श्रीमलुक्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्ड
नसमस्तयवनाधीश्वरश्रीनिजामशाहसाम्राज्यधुरन्धरश्रीमन्म
हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिह
प्रसादे श्राद्धसारे श्राद्धाधिकारिनिरूपणम् ।