पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
नृसिहप्रसादे

एवं कुर्वित्यनुज्ञात. पितृवर्ती तदाऽग्रजैः ।
चक्रे समाहितः श्राद्धमालभ्य कपिलां स ताम् ।
द्वैो देवे भ्रातरौ कृत्वा पित्र्ये त्रीश्चापरान् क्रमात् ।
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु ।
चकार मन्त्रवच्छाद्धं स्मरन् पितृपरायण
तया गवा विशङ्कास्ते गुरवे वै न्यवेदयन् ।
व्याघ्रण निहिता धेनुर्वत्सोऽयं प्रतिगृह्यताम् ।
एव सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः ।
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयैः ।
ततः कालापकृष्टास्ते व्याधा दाशपुरेऽभवन् ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ।
जातिस्मराः सप्त मृगा जाताः कालञ्जरे गिरो' । इति ।

इति श्रीमल्लक्ष्मीनृसिहचरणसरोरुह्वभ्रमरसमस्तभूमण्डलमण्डनसम

स्तयवनाधीश्वर श्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महारा

जाधिराज श्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे

श्राद्धसारे श्राद्धमहिमा ।