“उच्छिष्टैरेव विकिरं सदैव प्रतिपादयेत् ।
अन्यथा कुरुते यस्तु निराशास्तस्य देवताः
इति अद्य एव युक्तः ।
ततो ब्राह्मणहस्ते गण्डूषार्थं सकृत्सकृदपो दद्यात् ।
हस्तप्रक्षालनं वा गण्डूषं वेति सन्देहे इस्तप्रक्षालनापूर्व गण्डूष
ग्रहणे उच्छिष्टभक्षणापत्तेः पूर्व हस्तप्रक्षालनमिति पूर्वपक्षे आते
सिद्धान्तोऽभिधीयते पूर्वं गण्डूषमति । न च इस्तस्थितोच्छिष्टभक्षण
इति वाच्यम् । तदपेक्षया सुखस्थितस्य दुष्टत्वात् उत्तरापोशाना
तिरेकेण मुखस्थितस्य रुधिरतुल्यत्वात् । अत एवातिशिष्टाविप्रकर्ष
भिया तत्रैवाचमनकर्म कुर्वन्ति न दूरे । ततः पूर्वं गण्डूषमिति ।
“हस्तं प्रक्षाल्य यश्चापः पिबेद् भुक्त्वा द्विजः सदा।
ततोऽप्रक्षालितकर एव हस्तधावनगण्डूषानन्तरं तृप्तिप्रश्न
इत्यपरे वदन्ति । वचनं च पूर्वं पितृणां ततो देवानामित्यपि ।।
वैश्वदेवनिविष्टानां चरमं हस्तधावनमिति स्मरणात् ।
अथ पिण्डनिर्वपणमभिधीयते ।
अत्र पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भवे अनौकर
णशिष्टचरुशेषेण सह सर्वमन्नमुपादायाग्निसन्निधौ पिण्डान्दद्यात् ।
चरुश्रपणाभावे अनौकरणावशिष्टं यत् सार्ववर्णिकमन्नं तत्सर्वर्षा
दाय तिलमिश्रे दक्षिणामुख उच्छिष्टसन्निधौ पिण्डान् दद्यात् ।