पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
श्राद्धसारे ब्राह्मणपूजाप्रकारः

जले अग्नौकरणं जलसन्निधौ श्राद्धानुष्ठानविषयम् ।
‘‘स यदाऽपां समीपे स्याच्छुद्धं देयो विधिस्तदेति
कात्यायनस्मरणात् ।

“‘अन्यभावे तु विप्रस्य पाणावेवोपपादयेत्’

इति मनुवचनं तु ब्रह्मचारिविषयम् ।

'अग्न्यभावे तु विश्वस्य पाणौ दध्यात्तु दक्षिणे ।
अग्न्यभावः स्मृतस्तावद्यावद्भयां न विन्दति

इति जातूकर्थस्मरणात् । अग्नौ विचमानेऽपि काम्यादिचतु

ध्ये पाणावेत्र होमः कार्यः । अनेनैवाभिप्रायेणाहुQद्यकारा अपि--

“श्रान्वध्यं च पूर्वेद्युमांसि महसि च पाधणम् ।
काम्यमभ्युदयेष्टम्यामेकोद्दिष्टमथाष्टमम् ।।
चतुष्येषु साग्नीनां वह होमो विधीयते ।।
पित्र्ये ब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वषी"ति ।

अयमर्थाः

हेमन्तशिशिरयोरित्यादिना चतस्रोऽष्टम्योऽष्टका विहिताः, तत्र
नवमीश्राद्धमन्यष्टक्यं, सामन्यं क्रियमाणं पूर्वेद्युःमासि मासि कृष्ण
पक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां तिथावन्वष्टत्रयातिदेशेन यद्विहितं,
अमावास्याय पिण्डपितृयज्ञानन्तरं यद्विहितं तत्पार्श्वणम् । काम्यं
स्वर्गादिफलोद्देशेन कृत्तिकादिनक्षत्रेषु विहितम् । अभ्युदये पुत्रोत्प
त्यादिषु विहितम् । अष्टम्यामष्टका विहिताः । एकोद्दिष्टं सपिण्डीक
रणम, अथवा एकोद्दिष्टं मुख्यमेव । ततश्चष्टे श्राद्धानि-आन्वष्टक्यं,
नवमीश्राद्धंपूर्वेद्युः, सप्तमीश्राद्धे, मासि मासि पञ्श्वस्यादिषु विहित,