पार्वणममावास्यश्राद्धे, काम्यं नक्षत्रेषु फलोद्देश्यकं, अभ्युदयश्राद्धे
पुत्रोत्पत्तितड़ागारामदेवताप्रतिष्ठादिषु विहितम् , अष्टकाश्राद्धमष्टम्यां
विहितं, एकोद्दिष्टं सपिण्डीकरणम् , अथवा एकोद्दिष्टं मुख्यमेव ।
आद्यचतुष्टये अग्नौ होमः अन्ये पाणाविति । नन्वग्नौकरणं कथं
पाणौ तत्राम्यभावात् , सत्यम् अस्ति हस्तेऽष्पग्निः।
अनस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चैव कुशस्तम्बे अग्निः कात्यायनोऽब्रवीत्
“श्रम्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
पर्युक्ष्य दर्भानास्तीर्यं यतो ह्यग्निसमो द्विजः।
कायम् ।
“अग्नौकरणहोमस्तु कर्तव्य उपवीतिना ।
प्राङमुखेनैव देवेभ्यो जुहोतीति श्रुतिः स्मृतिः ।
अपसव्येन वा काय दक्षिणाभिमुखेन वा ।
परमकोपन्यासपरम् , अन्यथा वाक्यान्तरविरोधात् इत्यलमनेन । त
स्मादनग्निः पाणावग्निकरणं कुर्यात् ।
तदाह कात्यायनः --
पित्र्ये यः पङ्किमूर्धन्यः तस्य पाणाघनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्" इति ।