पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Řo निपाळ्टोपसर्गवृत्तिः चिरं चिराय चिररात्रायं चिरस्य चिरे ॥ ७४ । चिरंजीवी । चिरन्तनः । चिराय निर्धनो भूत्वा । चिररालाय यजते । चिरस्य बत लब्धासि । चिराश्विरेणेति नामनी ॥ तत्त्वं व्यक्तौ ।। ७५ ।। तत्त्वे मूर्वोऽयम् । व्यक्तं स्फुटमिति क्रियाविशेषणम् । पुरस्तात् पुरतोऽग्रतोऽग्रे ।। ७६ ॥ पुरस्तात् सेनानीर्याति । तदेत्यर्कः पुरस्तात् । पुरतस्त्वरितो याति । प्रसरतां यात्यग्रतः केसरी च । पुरः पूजायां च ।। ७७ ।। पूजायाम्-पुरस्कृतः । अग्रे--पुरीं याति ॥ अच्छाऽभिमुखे ॥ ७८ ॥ अच्छ स्वच्छो भव । अच्छभल्लः । गतिप्रतिरूपकोऽयम् ॥ प्रादुराविः प्रकाशे ॥ ७९ ॥ प्रादुष्प्रभावः । आविष्कृतः । गतिप्रतिरूपकी चैती संभवत एव । प्रादुर्भूतमधोक्षजम् । आविर्भूतः ॥ वरिवः परिचर्यायाम् ॥ ८० ॥ वरिक्स्कृणोतु । परिचरंत्क्त्यिर्थः । वरिवस्यति गुरून् ॥ सहसा आकस्मिकाऽविमर्शयोः ॥ ८१ ॥ आकस्मिके-शि(वः ?)रः प्रसूनं सहसा पपात । अविमर्शे--सहसा विदधीत न क्रियाम् ॥ शश्वत्, सनत्, सना, नित्यदा, सदिति नित्ये ॥ ८२ ॥ शश्वदकरोत् । सनत्कुमारः । सना भ्रवणशीयते सनाशभिः (?) । सनातनः ।। राधेयो नित्यदा दाता । सदिति मन्त्रणः शुचयः । नित्यं सततमजस्त्र