इदं स्तोत्रं नारायणविषयत्वाद् नारायणरचितत्वाच्च नारायणीयम् इत्याख्यायते । इहानुपूर्व्येण श्रीभागवतगताः कथाः सर्वाः संक्षिप्ताः । अत्र शतं क्ष्लोकदशकानि वर्तन्ते । तत्रैकमेकोनम्, अन्यानि निरग्राणि साग्राणि च । क्ष्लोकाश्चात्राहत्य १०३६ भवन्ति । इदं न केवलं भक्तिरसपरिपोषशालितया स्तोत्ररत्नं, किन्तु काव्यगुणपुष्कलतया काव्यरत्नमपि भवति । श्रीभागवतस्यैवैतस्य पारायणमभ्युदयकामाः केरलेषु शिष्टा भक्तिपूर्वमाद्रियन्ते । इदं प्रौढत्वाद् बहुत्र व्याख्यासापेक्षम् । अतो देशमङ्गलवार्यकृतया ललितया व्याख्यया समेतं कृत्वा संशोध्य चेदमिदानीं देवनागरलिपिभिः प्रचारबाहुल्याय मुद्रितम् । संशोधनाधारतया मूलस्य ५, व्याख्यायाः ३ आदर्शा राजकीयग्रन्थशालात उपलब्धाः ।
अस्य कविर्नारायणभट्टः केरलेषु निलानद्या उत्तरतीरवर्तिनि तिरुनावाक्षेत्रासन्ने पेरुमनंग्रामे मेरपुत्तूरनाममठे मातृदत्ताभिधानस्य विप्रश्रेष्ठस्य पुत्रः । अयम् अच्युतपिषारोटिसकाशाद् व्याकरणादिविद्या अधीतवान् । कदाचिदेष वातरोगाभिभूतो गुरुवायुपुरेश्वरं श्रीकृष्णमस्य स्तोत्ररत्नस्य प्रत्यहमेकैकदशकनिर्माणसपर्यया परितोष्य कल्यो बभूव । अथ लोकोत्तरेण कवित्वेन, पाण्डित्येन, चारित्रेण, ग्रन्थनिर्माणेन च प्रथमानोऽयम् अम्बलप्पुळपुराधिपेन, राज्ञा देवनारायणेन सविशेषमुपलालितस्तदास्थानभूषणतां प्रतिपेदे । देवनारायणस्यैव चोदनयानेन प्रक्रियासर्वस्वं नाम विपुलललितो व्याकरणग्रन्थः प्रणीतः; यं श्रीभट्टोजिदीक्षितः क्ष्लाघितवानिति प्रथास्ति । एतत्प्रणीता ग्रन्थास्तावदेते -
|