सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६]
४३
बिराड्देहस्य जगदात्मत्ववर्णनम् ।

तथाविधस्त्वं निर्भातोऽसि । हे मरुत्पुराधिप ! स त्वं सर्वामयात् सर्वस्माद् बाह्यादाभ्यन्तराच्च रोगाद् मां त्रायस्व रक्षतादित्यर्थः ॥ १० ॥

इति विराट्पुरुषोत्पत्तिप्रकारवर्णनं

पञ्चमं दशकम् ।


 एवं भगवतो बिराडाह्वयस्य स्थूलशरीरस्योत्पत्ति प्रदर्श्य सम्प्रत्युपासनार्थे तदवयवभेदकल्पनाप्रकारमाह-

एवं चतुर्दशजगन्मयतां गतस्य
 पातालमीश ! तब पाइतलं वदन्ति ।
पादोर्ध्वदेशमपि देव! रसातलं ते
 गुल्फद्वयं खलु महातलद्भुतात्मन् ! ॥ १ ॥

 एवमिति । हे ईश ! एवम् उक्तप्रकारेण चतुर्दश जगन्ति लोकाः तन्मयतां तन्निर्मितशरीरतां गतस्य तव पादतलं पातालं वदन्ति । उपासनाविदो मुनय इति शेषः । पादोर्ध्वदेशं प्रपदयुगलम् | अद्भुता आत्मानः शरीराणि यस्य सोऽद्भुतात्मा ॥ १ ॥

जङ्घे तलातलमथो सुतलं च जानू
 किञ्चोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमम्बरगङ्ग ! नाभि-
 र्वक्षश्व शक्रनिलयस्तव चक्रपाणे ! ॥ २ ॥

 जङ्घे इति । ऊरुभागयुगलमिति ऊर्वोरधोभागो वितलम् ऊर्ध्वभागोऽतलमित्यर्थः । क्षोणीतलं जवनं कटीतटम् | जघनशब्दनिर्देशस्तु भगवत्कटितटस्य सौन्दर्यविवक्षया, ‘पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्युक्तत्वात् । अङ्ग ! हे भगवन् ! शॠनिलयः स्वर्गस्तव वक्षश्च हे चक्रपाणे ! ॥ २ ॥

ग्रीवा महस्तव मुखं च जनस्तपस्तु
 फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो ! जगदाश्रितैर-
 प्यन्यैर्निबद्धवपुषे भगवन् ! नमस्ते ॥ ३ ॥