पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[स्कन्धः - २
नारायणीये

 सम्प्रत्येतैस्तत्त्वैर्भगवतो ब्रह्माण्डनिर्माणप्रकारमाह --

एते भूतगणास्तथेन्द्रियगणा देवाक्ष्च जाताः पृथङ्
 नो शेकुर्भुवनाण्डनिर्मितिबिधा देवैरमीभिस्तदा ।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमृन्याविशं-
 श्रेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यथाः ॥ ९ ॥

 एत इति । एते पूर्वोक्ता भूतगणाः शब्दादिसूक्ष्मभूतानां व्योमादिमहाभूतानां च गणा दशकं, तथेन्द्रियगणा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अन्तरिन्द्रियवृत्तिभिश्चतसृभिः सह चतुर्दश, तदधिष्ठाग्यो देवताश्च चतुर्दश । चः समुच्चये, यद्वा अप्यर्थे । एते जाता अपि भुवनाण्डनिर्मितिविधौ ब्रह्माण्डनिर्माणव्यापारे पृथक् पृथग्भूतत्वाद् नो शेकुः नाशक्नुवन् । यदा न शेकुः, तदा अमीभिर्देवैश्चतुर्दशभिः नानाविधाभिः सूक्तिभिः स्तोत्रैर्नुत [१]गुणस्त्वम् । अयं भावः- मायासृष्ट्यनन्तरमेव तच्छुद्धसत्त्वांशेनाङ्गीकृतलीलाविग्रहं त्वामेते देवाः सूक्तिभिः स्तुतवन्त इति । तद[२]र्थनया चामूनि तत्त्वान्याविशन् प्रविशन् तेषां तत्त्वानां चेष्टाशक्तिमुदीर्य क्रियासामर्थ्यमुत्पाद्य तानि मिथो घटयन् गुणप्रधानभावेन संयोजयन् हैरण्यं प्रकाशबहुलतया [३]सुवर्णपिण्डवदत्युज्ज्वलम् अण्डं ब्रह्माण्डाख्यं स्वशरीरं व्यधाः निर्मितवानसीत्यर्थ: ॥९॥

अण्डं तत् खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समा
 निर्भिन्दन्नकृथाक्ष्चतुर्दशजगद्रूपं विराडाहयम् ।
साहस्रै: करपादमूर्धनियनिवहैर्निश्शेषजीवात्मको
 निर्मातोऽसि मरुत्पुराधिप ! स मां त्रायस्व सर्वामयात् ॥ १० ॥

 अण्डमिति । तत् खलु तदचेतनमेवाण्डं पूर्वसृष्टसलिले आवरणोदके सहस्रं समाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । अतिष्ठत् स्थितमभूत् । ततश्च त्वं स्वांशेन तत् प्रविश्य निर्भिन्दन् विविधं विभजन् चतुर्दशजगद्रूपं विविधं राजमानत्वाद् विराट्संज्ञकं शरीरमकृथाः कृतवानसि । ततः साहस्रैः सहस्रसङ्खयापरिमितैः करपादमूर्धाद्यवयवानां निवहै: समूहै: निश्शेषजीवात्मकः निश्शेषाणां चराचराणां जीवः समष्ट्यात्मक एवात्मा स्वरूपं यस्य स निश्शेषजीवात्मको हिरण्यगर्भः,


  1. 'ता: स्तुता गुणा यस्य स त्वं नुतगुणः । अ' क. पाठ:.
  2. 'तश्च त्वममू' क. पाठ:.
  3. ‘पुरटपि’ क. पाठः.