पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३]
२५
भक्तिप्रार्थना ।

दित्यत्र प्रमाणमाह - न चेदिति । व्यासस्योक्तिः भगवद्भक्तिमाहात्म्यप्रतिपादकानि पुराणवचनानि, तव च वचनम् अर्जुनमुद्धवं च प्रति यदुक्तवानसि, नैगमवचः वेदवाक्यानि, यद्वा नैगमा वेदज्ञास्तेषां वचनम् । यदि भक्तिरशेषक्लेशौघं न प्रशमयति, तर्हेतत् सकलं प्रायेण रथ्यापुरुषवचनवन्मिथ्या[१] अप्रमाणं भवेदिति विपक्षे बाधकस्तर्कः। अवैदिकास्त्वेवं प्रलपन्ति – वेदस्मृतिपुराणवचनानि प्रमाणं न भवन्ति, वाक्यत्वाद्, रथ्यापुरुषवचनवदिति । नेदमनुमानं श्रुतिस्मृतिपुराणवचनाप्रामाण्यापादकमित्याह- न खल्विति । अयमभिप्रायः – यद्यद्वाक्यं तत्तदप्रमाणमिति इदमनुमानमपि वाक्यत्वादेवाप्रमाणमिति तैर्मुक्तो बाणस्तानेव विध्यति । किञ्च, आचार्यैर्वेदस्य प्रामाण्यं तन्मूलतया स्मृतिपुराणवचनानामपि प्रामाण्यं प्रपञ्चितम् । अतः श्रुतिपुराणवचनादीश्वरवचनाच्च सिद्धा भक्तेर्मोक्षोपायता ॥ ५ ॥

 एवञ्च भक्तिरेवोक्तमार्गेण प्रार्थनीयेति वदितुं तस्या ज्ञानादुत्कर्षमाह ---

भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात्
 किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनक्ष्चान्ते स्वान्ते विंमलपरिवोधोदयमिल-
 न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ६ ॥

 भवदिति । तावच्छब्दः क्रमार्थः । भवद्भक्तिः प्रमुखे आदौ प्रथमसन्निपाते मधुरा सुखरूपा । कुत इत्यत आह -त्वद्गुणरसादिति । तव गुणेषु श्रवणस्मरणादिषु जातश्रद्धतयाहादात् । ज्ञानमार्गे तु नैवं, 'यत्तदग्रे विषमिवे'ति भगवद्वचनात् । सा त्वगुणरसात् त्वत्कथाश्रवणश्रद्ध्यै[२]व किमपि किञ्चिद् आरूढा प्रवृद्धा चेद् यथाभक्ति तत्त्वावबोधस्य विषयविरक्तेरपि सम्भवादखिलपरितापप्रशमनी अखिलस्याध्यात्मिकादेः परितापस्य प्रकर्षेण समूलं[३] शान्ति कर्त्री । पुनरन्ते परिणामे च स्वयं परिपो[४]षं नीतायां सत्यां स्वान्ते हृदि । विमलपरिब्रोधेति। विगतं [५]नष्टं मलं शरीराद्यहंममाभिमानरूपमज्ञानं यस्मात् परिबोधात् स विमलपरिबोधो ब्रह्मैवेदं सर्वमिति ज्ञानं, तस्योदयेन मिलत् सहितं महानन्दाद्वैतं महद् ब्रह्मैवानन्दरूपं निरस्तसमस्तोपाधिकतयाद्वितीयं दिशति । भक्तिरेवानुभवपर्यन्तं ब्रह्मज्ञानं दत्त्वा


  1. 'थ्या भवेन्न प्र' ख. पाठ:.
  2. 'द्वतयै' क. पाठ:.
  3. 'लेन शा' क. पाठ:.
  4. 'तो' क. पाठः.
  5. 'ष्टं श' क. पाठः.