भवेयम् । अनेन च प्रारब्धकर्मफलस्यावश्यभोग्यत्वात् सुखदुःखप्राप्तिपरिहारार्थः प्रयासोऽपि वृथाकालक्षेपैकफल इत्यपि दर्शितम् । अगाधो गम्भीरः एवम्भूत इति परिकलयितुमशक्यः । रूपविलासमोहितो नश्यतीति शलभाच्छिक्षणीयमित्याह — मा पप्तमिति। योषिति प्रमदायां हावभावा[१]दिभिः, आदिशब्दात् कटककटिसूत्रहारदुकूलादावतिमनोहरे वस्तुनि परमार्थतो दुःखहेतावुपभोग्यधिया मा पप्तं यथाग्नौ तद्व[२] र्णलोभितः पतङ्गः पतति तद्वत् । किञ्च, यथा भृङ्गः पुष्पेषु सारभूतं मधु भजति, एवं सर्वशास्त्रेषु सारं श्रीनारायणस्मरणरूपमर्थमेव भजेयम् । शिक्षणीयान्तरमाह—किन्त्विति । किन्तु विशेषोऽस्ति । तद्वद् भृङ्गवत् । यथा भृङ्गो विशिष्टगन्धलोभेनैकस्मिन्नेव पद्मे वसन्नस्तमये मुकुलिते तस्मिन् बध्यते, तद्वदहमप्यर्थार्जनाद्याभिनिवेशेनैकत्र सक्तो न नाशं गच्छेयमित्यर्थः ॥ ५ ॥
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं |
मेति । स्त्रीणामङ्गसङ्गो बन्धहेतुरिति गजाच्छिक्षणीयमित्याह – मा बध्यासमिति। वशया करिण्या। गजो हि करिणीं प्रदर्श्य निखातपिहितगर्ते निपात्य बध्यते[३][४] । करिणीजठरे बद्धचर्मान्तर्भूतपुरुषेणेति वा । त्यागभोगहीनं धनं न सञ्चिनुयादिति माध्वीहराच्छिक्षणीयमित्याह - नार्जयेयमिति । तं धनौघम् अन्यश्चोरादिः हर्ता हरिष्यति । माध्वीहरो हि तरुकोटरादिषु मक्षिकाभिः सञ्चितं मधु हरति तद्वत् । गीतादिशब्दसक्तिर्नाश हेतुरिति मृगाच्छिक्षणीयमित्याह -– मृगवदिति । मृगो हि मृगयोर्गीतेन मोहितस्तेन निगृह्यते, तद्वत् । ग्राम्यगीतैरिति । भगवद्गीतेष्वेवासक्तिर्मवेदिति भावः । रसासक्तिर्नाशहेतुरिति मीनाच्छिक्षणीयमित्याह – नातीति । झषो मत्स्यः बडिशे आमिषावृतलोहकण्टके । आशा दुःखहेतुः नैराश्यं सुखहेतुरिति पिङ्गलायाः शिक्षणीयमित्याह – पिङ्गलावदिति । पिङ्गला नाम स्वैरिणी अर्थाशया[५]