पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९२]
३२३
कर्ममिश्रभक्तिस्वरूपवर्णनम् ।


भिलपति। तच्च निजं स्वेनानुष्टितं दुश्चरित्रं मोपणादि गृहितुं साधुरयं तादृशं न करोतीत्यस्मान् प्रतिबोध्यापहोतुम् । अस्य निर्लज्जस्य हरिभक्तेरन्यत् सारं नास्तीत्या[१]द्यस्मत्सन्निधौ लज्जां निर्जित्य जल्पतोऽस्य याचा हेतुना मे बहुतराणि कथनीयानि बन्धुभिर्निरूपणीयानि कार्यजातानि विघ्नितानि । ननु तस्मिन् कर्माणि[२] भ्राता किं न नियुज्यत इति चेत् तत्राह — भ्राता मे वन्ध्यशील इति । वन्ध्यं निष्फलं शीलं यस्य स तथा । तेन ममोपकारो नास्तीति भावः [३] । सदा विष्णुं भजति किल पुष्पाञ्जलिनमस्कारनाम[४]कीर्तनादि करोति । तत् किल विष्णुभजनम् । तेन तस्य मम वा किं स्यात् । इत्थं ते अशान्ताः बुधान् भक्तान् निन्दन्ति । त्वयि ईश्वरे निहिता स्थिरीकृता रतिः प्रेमलक्षणां भक्तिर्यैस्तान उच्चैर्हसन्ति त्वद्दास्यादिप्रार्थ[५]नामन्यैः सह परिहसन्ति । एतेषां कदाचिदपि संसारनिवृत्त्य[६]संभवाद् मां तादृशं मा कृथाः ॥ ४ ॥

 युगानुरूपं सेवाप्रकारमाह-

श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि-
 स्त्रेतायां स्त्रुकस्त्रुवाद्यङ्कितमररुणतुं यज्ञरूपं यजन्ते ।
सेवन्ते तन्त्रमार्गै विसदरिगदं द्वापरे श्यामला
 नीलं सङ्कीर्तनाचैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ५ ॥

 श्वेतच्छायमिति । श्वेतच्छायं शुक्लवर्णं कृते कृतयुगे मुनिवरवपुषम् । अत्र मुनिशब्देन ब्रह्मचारी विवक्ष्यते, जटावल्कलकृष्णाजिनोपवीताक्षमालादण्डकमण्डल्वादीन् बिभ्रतमित्यर्थः। त्वां चतुर्बाहुं तपोभिः ध्यानमार्गैः[७] प्रीणयन्ते प्रसादयन्ति । मानुषा इति सर्वत्रानुषज्यते । त्रेतायां त्रेतायुगे स्त्रक्खुवाद्यङ्कितं स्रुग् जुहूः सुवश्च तदादिभिः कराग्रस्थितैः अङ्कितम् उपलक्षितं[८] यजन्ते । वैदिकैः कर्मभिरिति शेषः । द्वापरे तन्त्रमार्गैः पूजाप्रकारैः सेवन्ते पूजयन्ति । विलसदरिगदं विलसन्त्यौ


  1. 'त्यस्म' क. पाठः.
  2. 'णि तर्हि भ्रा' क. ग. पाठ:.
  3. 'वः । किञ्च स' क. ग. पाठः.
  4. 'मसङ्कीर्त' क. पाठः.
  5. 'नायाम' क. ग. पाठ:.
  6. त्त्यभा' क. ग. पाठ:.
  7. 'गैं: प्र' ख. पाठः.
  8. 'तम् अरुणतनुं य' क. ग. पाठः.