पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८]
अर्जुनगर्वापनयनवर्णनम् ।


 गच्छन्निति । द्विमूर्ति: अङ्गीकृतशरीरद्वयः । एकेन बहुलाश्वेन भूरिभिर्विभवैः उपकरणैः विहितः कृतः उपचार: पूजा यस्य ॥ ३ ॥

 अथ द्विजस्य मृतपुत्रनयनेनार्जुनस्य गर्वानयनपूर्वकमात्मनि तत्त्वबुद्ध्यापादनप्रकारमाह-

भूयोऽथ द्वारवयां द्वारवत्यां द्विजतनयमृतिं तत्मलापानपि त्वं
 को वा दैवं निरन्ध्यादिति कल कथयन् विश्ववोढाप्यसोढाः ।
जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
 तत्त्वारूढां विधातुं परमतमपदप्रेणेनेति मन्ये ॥ ४॥

 भूय इति । दैवं स्वकर्मफलं को निरुन्ध्याद् अन्यथाकर्तुं कः समर्थ इति कथयन् त्वं तस्य द्विजस्य प्रलापानपि विश्ववोढा जगदीश्वरोऽपि असोढाः मर्षितवान्[१] । परमतमस्य पदस्य वैकु[२]ण्ठपदस्य प्रेक्षणेन अस्य जिष्णोः गर्वं विनेतुम् अपनेतुम् । मनुजधिया त्वयि कुण्ठितां निश्चयरहितां तत्त्वारूढां विधातुम् इदमिति मन्ये ॥ ४ ॥

नष्टा अष्टस्य पुत्राः पुनरपि तब तूपेक्षया कष्टवादः
 स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः ।
मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं
 श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्मिवेक्ष्ये कृशानुम् ॥ ५ ॥

 नष्टा इति । अस्य द्विजवरस्य अष्ट पुत्रा नष्टाः । तदा तु तवोपेक्षया द्विजसुतरक्षणौदासीन्याद् जनानां कष्टवादो लोकापवादो जातः । तदवसरे पार्थो द्वारकाम् आर प्राप । मैत्र्या सख्येन तत्रोषितः उवास । अनुपहृतसुतः अदत्तजनिष्यमाणकुमारश्चेद् अहं कृशानुम् अग्निं सन्निवेक्ष्ये प्रविशामि ॥ ५ ॥

मानी स त्वामापृष्ट्वा द्विजनिलयगतो वाणजालैर्महास्त्रै
 रुन्धान: सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।


  1. 'नसि' क. पाठः.
  2. 'ष्णवप' क. ग. पाठः.