पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
[स्कन्धः - १०
नारायणीये


स रत्नशालासु वसन्नपि स्वयं ससुत्मन्नद्भक्तिभरोऽमृतं ययौ ।
त्वमेवमापूरितभक्तवाञ्छितो महत्पुराधीश ! हरस्व मे गान् ॥ १० ॥

 स इति । सः स्वयं रत्नशालासु कामोद्दीपनविभा[१] वेषु वसन्नपि समुन्नमद्भक्तिभरः क्रमात् प्रवृद्धभक्त्यतिशयः अमृतं मोक्षं ययौ ॥ १० ॥

 इति कुचेलोपाख्यानं सप्ताशीतितमं दशकम् ।

प्रागेवाचार्यपुत्रातिनिशमनया स्वीयषट्मूनुवीक्षां
 काङ्क्षक्षन्त्या मातुरुक्त्या सुतलभुवि वलिं प्राप्य तेनार्चितस्त्वम् ।
धातुः शापाद्धिरण्यान्वितकशिषुभवान् शौरिजान् कंसभग्ना-
 नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥ १ ॥

 प्रागेवेति । मृतं पुत्रमानीयाचार्यदक्षिणां कृतवानिति निशमनया श्रवणेन कंसहतस्वीयषट्सूनुवीक्षां प्रागेव अतिचिरं काङ्क्षन्त्या मातुर्देवक्या उक्त्या महाबलिं प्राप्य पूर्वे मरीचेः पुत्रान् स्मरोद्गीथपरिष्वङ्गपतङ्गक्षुद्रभुग्वृण्याख्यान् पुनश्च धातुर्ब्रह्मणः शापाड् हिरण्यकशिपुभवान् शौरिजान् वसुदेवपुत्रान् मात्रे प्रदर्श्य स्वपदं स्वर्गम् अनयथाः प्रापयामासिथ ॥ १ ॥

श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् ।
युगपत् त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ २ ॥

 श्रुतदेव इति। श्रुतं विश्रुतम् ॥२॥

गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत-
 मेकेन भूरिविभवैर्विहितोपचारः ।
अन्येन तदिनभृतैश्च फलौदनाद्यै-
 स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ ३ ॥


  1. 'भ' क. पाठः