पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् ८६]
२९५
भारतयुद्धवर्णनम् ।


 युद्धादाविति । ऋच्छन् गच्छन् अप्रत्युत्थायिनः सूतस्य रोमहर्षणस्य क्षयकृद् वधं कुर्वन् अथ मुनिवचनात् सुतं तत्पुत्रं तत्पदे मुनिदत्ते ब्रह्मासने । पर्वणि पर्वणि यज्ञघ्नं बल्वलं दैत्यं परिदलयन निघ्नन् ॥ ९ ॥

ससुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या
 तन्मुक्तं ब्राह्ममस्त्रं समदृत विजयो मौलिरत्नं च जहे ।
उच्छिन्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे
 रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो ! त्वम् ॥ १० ॥

 संसुप्तेति । संसुप्तपञ्चद्रौपदेयक्षपणेन [१] हतधियम् अविदितेतिकर्तव्यताकं द्रौणिम् अश्वत्थामानमेत्य तेन अश्वत्थाम्ना मुक्तं ब्राह्ममस्त्रं त्वदुक्त्या विजयः समहृत संहृतवान्, तस्य मौलिरत्नं च ज[२]हे । पाण्डवानामुच्छित्त्यै मूलच्छेदाय[३] पुनस्तत्प्रयुक्ते अस्त्रे ब्रह्मास्त्रे उत्तरागर्भं विशति सति अङ्गुष्ठमात्रवपुश्चक्रपाणिः सन् त्वमुत्तराया जठरमगाः किल ॥ १० ॥

 अथ धर्मजभीष्मयोर्मुक्तिमुक्ती प्रदाय कृतकृत्यो भगवानित्याह-

धर्मोघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्म-
 स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् ।
संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं
 सम्माप्तो द्वारकां त्वं पवनपुरपते ! पाहि मां सर्वरोगात् ॥ ११ ॥

 धर्मौघमिति । सः भूभारहरणे परमसुहृद् भीष्मः त्वां पश्यन् त्वद्भक्तेर्भूम्नैवानपायिन्या भक्त्या निष्कलब्रह्मभूयं निष्कलब्रह्मत्वं मोक्षं[४] सपदि ययौ । अथाश्वमेधैः संयाज्य याजयित्वा ॥ ११ ॥

इति साल्वादिवधवर्णनं भारतयुद्धोपक्रमवर्णनं भारतयुद्धवर्णनं च

षडशीतितमं दशकं सैकम् ।



  1. 'न हता धीर्नष्टा बुद्धिर्यस्य तं द्रौ' क. पाठः.
  2. 'हे । उच्छि' क. ग. पाठ:.
  3. 'य। जठ' क. पाठः.
  4. 'क्षम् । सं' क.ग. पाठः.