युद्धादाविति । ऋच्छन् गच्छन् अप्रत्युत्थायिनः सूतस्य रोमहर्षणस्य
क्षयकृद् वधं कुर्वन् अथ मुनिवचनात् सुतं तत्पुत्रं तत्पदे मुनिदत्ते ब्रह्मासने ।
पर्वणि पर्वणि यज्ञघ्नं बल्वलं दैत्यं परिदलयन निघ्नन् ॥ ९ ॥
ससुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या |
संसुप्तेति । संसुप्तपञ्चद्रौपदेयक्षपणेन [१] हतधियम् अविदितेतिकर्तव्यताकं द्रौणिम् अश्वत्थामानमेत्य तेन अश्वत्थाम्ना मुक्तं ब्राह्ममस्त्रं त्वदुक्त्या विजयः समहृत संहृतवान्, तस्य मौलिरत्नं च ज[२]हे । पाण्डवानामुच्छित्त्यै मूलच्छेदाय[३] पुनस्तत्प्रयुक्ते अस्त्रे ब्रह्मास्त्रे उत्तरागर्भं विशति सति अङ्गुष्ठमात्रवपुश्चक्रपाणिः सन् त्वमुत्तराया जठरमगाः किल ॥ १० ॥
अथ धर्मजभीष्मयोर्मुक्तिमुक्ती प्रदाय कृतकृत्यो भगवानित्याह-
धर्मोघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्म- |
धर्मौघमिति । सः भूभारहरणे परमसुहृद् भीष्मः त्वां पश्यन् त्वद्भक्तेर्भूम्नैवानपायिन्या भक्त्या निष्कलब्रह्मभूयं निष्कलब्रह्मत्वं मोक्षं[४] सपदि ययौ । अथाश्वमेधैः संयाज्य याजयित्वा ॥ ११ ॥
इति साल्वादिवधवर्णनं भारतयुद्धोपक्रमवर्णनं भारतयुद्धवर्णनं च
षडशीतितमं दशकं सैकम् ।