पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५६]
२०३
कालियमर्दनवर्णनम् ।


रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ! ननर्तिथ पन्नगे ।
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ १ ॥

 रुचिरेति । दैवतयौवते देवस्त्रीसमूहेऽमरताडितदुन्दुभिनुन्दरं यथा तथा वियति दिवि विमानेषु गायति सति पन्नगे तत्फणासु सुचिरं ननर्तिथ ॥ १ ॥

नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥ २ ॥

 नमतीति । अमुष्य फणिनो यद्यच्छिरो भगवत्पदपरिमथिततया नमति, तत्तत् परिविहायोन्नतमुन्नतं तच्छिरः पदपङ्करुहा परिमथन् व्यहरथाः क्रीडितवान् ॥ २ ॥

त्वदवभग्नविभुग़फणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नतास्तदवलास्तव माधव! पादयोः ॥ ३ ॥

 त्वदिति । त्वयावभग्नो मर्दितो विभुग्नः कुटिलोऽवाङ्मुखः फणागणो यस्य । गलितेन वान्तेन शोणितेन रक्तेन शोणितमरुणीकृतं पाथो जलं येन । अवसीदति भग्नगात्रे सति तदबला नागपत्न्यः ॥ ३ ॥

अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनह्टदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवरीश ! भवन्तमयन्त्रितम् ॥ ४ ॥

 अयीति । पुरा पूर्वमेव चिराय चिरं परिश्रुतेन तवानुभावेन माहात्म्येन विलीनहृदः क्ष्ल[१]थद्धृदयाः अत एव मुनिभिरण्यनवाप्यः पन्थाः सकलनिष्कलरूपार्थयोजनरूपो मार्गो येषु तादृशैः स्तवैरयन्त्रितमनर्गलं नुनुवुस्तुष्टुवुः ॥ ४ ॥

फणिवध्गणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताच्युत ! जीवितस्त्वयि समर्पितमूर्तिरवानमत् ॥ ५ ॥


  1. 'यह्ट' क. पाठः