पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
[स्कन्धः - १०
नारायणीये


ज्वलदक्षिपरिक्षरदुग्रविपश्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तवलं समवेष्टयदस्फुटचेष्टमहो ॥ ६ ॥

 ज्वलदिति । ज्वलदक्षि यथा भवति तथा परिक्षरन्नुग्रविषश्वसनस्योष्मभरो यस्य सः परिदृश्य मर्मसु दष्ट्वा समवेष्टयत् तदास्फुटचेष्टमदृश्यव्यापारम् ॥

अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ७ ॥

 अविलोक्येति । अनिमित्तशतं दुर्निमित्तौघम् । पशुपा नन्दादयः ॥ ७ ॥

अखिलेषु विभो ! भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ८ ॥

 अखिलेष्विति । जीवभरं भवद्विरहे वोढुमशक्यान् प्राणान् जिहासुषु विहातुमिच्छत्सु तेभ्य आत्मकुशलज्ञापनार्थं हासजुषा भवतोदगम्यतोत्थितम् ॥८॥

अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा ।
कलशिञ्जितनूपुरमञ्जुमिलत्करकङ्कणसंकुलसंक्कणितम् ॥ ९ ॥

 अधिरुह्येति । ततः फणिराजस्व कालियस्य फणानधिरुह्य भवता ननृते नृत्तमकारि । मृद्वी फणामणिरञ्जिततया स्निग्धा पादरुग् यस्य । कलशिञ्जितौ नूपुरौ यस्मिन् तत् कलशिञ्जितनू पुरं मञ्जु मनोज्ञं च तालव्यापृततया मिलतोः करयोः कङ्कणसंकुलस्य संक्कणितं यस्मिन्निति नर्तनक्रियाविशेषणम् ॥ ९ ॥

जहषुः पशुपास्तुतुषुर्मुनयो वट्टषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते ! परिपाहि स मां त्वमदान्तगदात् ॥ १० ॥

 जहपुरिति । जहषुर्हष्टाः । तुतुषुस्तुष्टाः | अदान्तादविरतं वर्धमानाद् गदादू व्याधेः परिपाहि ॥ १० ॥

इति कालियमर्दने कालियशिरसि भगवन्नर्तनवर्णनं

पञ्चपञ्चाशं दशकम् ।