पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३८]
१५५
कृष्णावतारवर्णनम् ।

देवक्या जठरं विवेशिथ विभो ! संस्तूयमानः सुरैः
 स त्वं कृष्ण! विधूय रोगपटलीं भक्तिं परां देहि मे ॥ १० ॥

 प्राप्त इति । देवक्याः सप्तमगर्भतां प्राप्तेऽहिपतावनन्ते मायया रोहिणीं नीते । सच्चिदिति सच्चिदानन्दैकरसः । हे कृष्ण ! सः देवकीजठरस्थः ॥ १० ॥

इति कृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशं दशकम् ।


आनन्दरूप! भगवन्नयि! तेऽवतारे
 प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः ।
कान्तित्रजैरिव घनाघनमण्डलैर्धा-
 मावृण्वती विरुरुचे किल वर्षवेला ॥ १ ॥

 आनन्देति । प्रदीप्तात् प्रकाशोज्ज्वलाद् भवदङ्गान्निरीयमाणैर्बहिर्निर्गच्छद्भिः ॥ १ ॥

आशासु शीतलतरासु पयोदतोयें-
 राशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
 ल्केशापहस्त्रिजगतां त्वमिहाविरासीः ॥ २ ॥

 आशास्विति । आशासितस्याभीष्टार्थस्याप्त्या लाभेन विवशेषु प्रीतिवेंगेनाविदितेतिकर्तव्यताकेषु । मध्यमायां निशि अर्धरात्रे ॥ २ ॥

वाल्यस्पृशापि वपुषा दधुषा विभूती-
 रुघत्किरीटकटकाङ्गदहारभासा ।
शङ्खारिवारिजगदापरिभासितेन
 मेघासितेन परिलेसिथ सूतिगेहे ॥ ३ ॥

 बाल्येति । बाल्यं स्पृशति तेन सम्बध्यत इति बाल्यस्पृक् । विभूतीरीश्व-


● 'ईङ् गतौ' दिवादिः ।