पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ नानार्थार्णवसंक्षेपे ज्ञेयोऽभिनवमृत्पात्रे प्रीतेऽप्याख्यातमित्यदः । क्लीबं तिङन्ते त्रिस्तूक्तेऽथाचितं स्यान्नपुंसकम् ॥ १९९ ॥ तुलाविंशतिरूपाणां भाराणां दशके स्मृतम् । ना तु शाकटभारे स्यान्निश्चिते त्वभिधेयवत् ॥ २०० ॥ स्यादातिथ्यमतिथ्यर्थे त्रिः पुमांस्त्वतिथौ मतः । आचार्य उपनीत्यादिकारिणि स्यान्नृलिङ्गकः ॥ २०१ ॥ मन्त्रव्याख्याकृतीत्येक आचार्या तु स्त्रियामियम् । खतो या स्यादुपाध्याया तस्यां भार्या तु या भवेत् ॥ २०२ ॥ आचार्यस्य भवेत् तस्यामाचार्यानी स्त्रियां पुनः । ज्ञेया यवाग्वामाश्राणा पक्के त्वन्यत्र भेद्यवत् || २०३ ॥ क्षीराच्चै हविषश्चापि स्यादथो आशरो द्वयोः । राक्षसे शरसम्बन्धहीनसम्बन्धिनि त्रिषु ॥ २०४॥ आशिरस्तु पुमान् विष्णौ सूर्ये वह्नौ च भोजने । तथा क्षीरविकारे स्यादथ बह्वाशिनि त्रिषु ॥ २०५॥

  • 'नाशिरं दुह्र' इत्यत्र चिन्त्योऽर्थोऽथाशुगः पुमान् ।

अर्के वायौ शरे त्रिस्तु शीघ्रगेऽथ नृलिङ्गकः ॥ २०६ ॥ आलिङ्गो वाद्यभदे स्यादित्यूचे शाकटायनः । आलिङ्गने च त्रिषु तु स्यादलिङ्गस्य योगिनि || २०७॥ आलिङ्ग्यः पटहे पुंसि मध्यमे भेद्यवत् पुनः । आलिङ्गनीये विज्ञेय आञ्जनः पुनरुच्यते ॥ २०८ ॥ १. 'ज्यहविषञ्चापि' ग. पाठः,

  • अयं च प्रयोगः ऋग्वेदे. ३. अष्टके. ५३. सूके. १४. मन्त्रे दृश्यते ।

सोममिश्रणयोग्यं पत्र इति तद्भाष्यम् ।