पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० नानार्थार्णवसंक्षेपे कीलकूर्परयोश्चान्ये पुनर्मानान्तरे विदुः । चतुर्विंशत्यङ्गुलेऽथ स्यादग्नावमनिः पुमान् ॥ १५२ ॥ कश्चित् त्वाह स्त्रियां रोगे पुंस्त्रियोस्त्वशनिः पवौ । वज्रनिर्घातयोश्च त्रिः पुनः स्याच्छनिवर्जिते ॥ १५३ ।। अ(त्मद्म)निस्तु पुमानग्नौ जयहस्तिन्यथ स्त्रियाम् । पशूनां भक्षणे द्रोण्यां तालुन्यप्यथ दीधितौ ॥ १५४ ॥ अभीशुः प्रग्रहेऽश्वस्य बाहौ चाथाङ्गलौ स्त्रियाम् । अविष्टस्तु द्वयोरवे पुल्लिङ्गस्त्वपहोतरि || १५५ ।। अजिष्णुस्तु पुमानग्नावुदके तु नपुंसकम् । अररुस्त्वसुरे द्वे स्यान्मन्थनेऽथायुधे नपि ।। १५६ ॥ अगुरु क्ली शिंशपायां जोङ्गके पुन्नपुंसकम् । लघुनि स्याद् भेद्यलिङ्गमश्वयुक् तु स्त्रियामियम् ॥ १५७ ॥ अश्विन्याह्वयनक्षत्रे तद्युक्ते कालमात्रके । जाते तु तत्र त्रिरथो अहिभुग् गरुडे पुमान् ॥ १५८ ॥ द्वे मयूरे भेद्यलिङ्गस्त्वहिभोजिनि कीर्तितः । अंशुमांस्तु पुमान् सूर्ये चन्द्रे चाद्यमहीपतौ ॥ ११९ ॥ दिलीपाख्यस्य नृपतेस्ताऽथांशुमती स्त्रियाम् । पृश्निपर्णीसालपर्ण्योरंशुयुक्ते तु भेद्यवत् ॥ १६० ॥ मुहूर्तभेदे त्वभिजित् ऋतुभेदे च पुंसि सः । नक्षत्रभेदे तद्युक्तकालमात्रे च सत्रि तु ॥ १६१ ॥ तत्र जाते पुमांस्तु स्यादहिजिद् विष्णुशक्रयोः । अहेस्तु जेतरि त्रि स्यादरुन्धत् त्वभिधेयवत् ॥ १६२ ॥ अरोधके वसिष्ठर्षिपत्न्यां तु स्यादरुन्धती । वचायां च स्त्रियामस्थिसंयुक्ते त्वभिधेयवत् ॥ १६३ ॥