पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 नानार्थार्णवसंक्षेपे अण्डीर: पुरुषे पुंसि सज्जने मुष्कवत्पशौ । त्रि तु शक्तेऽथाण्डुको ना मुष्के स्याद् द्वे तु टिट्टिभे ॥ १२८ ॥ अङ्कुरस्त्वस्त्रियां बीजप्ररोहे किञ्च शाखिनाम् । प्रतानभेदे क्लीबं तु रुधिरे रोम्णि वारिणि ॥ १२९ ॥ अथापरं क्लीबलिङ्गं सिद्धान्ते मुनयो विदुः । गजपाश्चात्यभागेऽथ त्रिः पूर्वप्रतियोगिनि ।। १३० ॥ अन्यस्मिन्नप्यथापारः समुद्रे ना त्रिषु त्वयम् । अविद्यमानपारे स्यादशित्रस्तु पुमानयम् ॥ १३१ ॥ अमौ क्ली रश्मिहविषोरम्बष्ठस्तु योरयम् । वैश्यायां ब्राह्मणाज्जाते विवाहादपरे पुनः ॥ १३२ ॥ ब्राह्मणात् क्षत्रियाजाते विवाहेनेति मन्वते । सवर्णाख्ये नृपात् तूढवैश्यायामपरे विदुः || १३३ ॥ जाते माहिष्यसंज्ञाके स्त्री त्वम्बष्ठा विधीयते । पाठाशार्ङ्गाष्ठयोर्यूथीचाङ्गेर्योः स्थावरान्तरे ॥ १३४ ॥ मयूरविदलासंज्ञे काकमाच्यां च कश्चन | वैजयन्त्यां तु पिप्पल्यामप्यम्बष्ठामभाषत ॥ १३५ ॥ अग्निष्ठः पुंस्युपस्थावसंज्ञयूपद्वयान्तरे । स्थितयूपे त्रिषु त्वेष वह्निस्थे क्ली त्वपष्ठवाक् ॥ १३ ॥ अङ्कुशाग्रे पष्ठहीने पुनः स्यादभिधेयवत् । पष्ठश्च पर्वतग्रस्थ आख्यातः कृतबुद्धिभिः ॥ १३७ ॥ अत्यूहो गजमेढ्रे ना त्रि त्वत्यर्थोहकादिषु । अत्यूहा नीलिकायां स्त्री नीलकण्ठखगे द्वयोः ॥ १३८ ॥ अणीचिस्तु पुमान् वेणौ त्रिषु शाकटिके मतः । असौम्येऽक्षण्यदृष्टिः स्त्री दृष्टिहीने तु भेद्यवत् ॥ १३९ ॥ १. 'त्व' ङ. पाठ:. २. 'प' क. ख. ग., 'या' ग. पाठ:. ३. 'णि' ड. पाठः,