सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ नानार्थार्णवसंक्षेपे आयस्तः कुपिते क्षिप्ते क्लेशिते तेजितेऽपि च । अनुज्ज्वले त्वाविलं स्यात् कलुषे चेतरः पुनः ॥ ९ ॥ अन्यस्मिन् पामरे चाथ स्यादुत्कृष्टः प्रकृष्टके । ऊर्ध्वस्थानं प्रापिते चाप्युत्क्षिप्ते तूद्धृतं विदुः ॥ १० ॥ भुक्तोज्झितेऽप्यथोत्तानं निम्नस्य प्रतियोगिनि । ऊर्ध्वकृतपुरोभागेऽप्युच्छ्रितं तून्नतेऽपि च ॥ ११ ॥ प्रवृद्धोत्पन्नयोरूर्ध्वस्थापितेऽप्युदितं पुनः । उद्गते कथितेऽथ स्यादुदूढं विपुलेऽपि च ॥ १२ ॥ ऊढे च पीवरे चाथो उपोढो निकटोढयोः । उपितं न्युषिते दग्ध इति सर्वे निघण्टवः ॥ १३ ॥ उषितं न्युषिते युक्तं दग्धे त्वेतदसाम्प्रतम् ।

  • उषित्वा (?) दोषतेरेतच्छाकटायन उक्तवान् ॥ १४ ॥

प्रत्युष्टं+ रक्ष इति च प्रयोगः शाश्वतस्तथा । उत्थितं प्रोद्यते जाते वृद्धिमत्यपि दृश्यते ॥ १५ ॥ उदारो महति ख्याते दानशौण्डविदग्धयोः । उत्तालं पुनरुत्तान उन्नतोच्चण्डयोरपि ॥ १६ ॥ उत्कटस्तूद्भटे मत्ते तीव्रेऽपि रभसोऽपठीत् । उज्जट: शून्यदेशे सादूर्वीभूतजटादिषु ॥ १७ ॥ उज्झकस्त्वपि निःस्नेहे स्यादुज्झितरि च स्मृतः । उन्निद्रस्तु भवेत् फुल्ले निद्रया हीन एव च ॥ १८ ॥ उद्बुद्धस्तु भवेत् फुल्ले प्रवृद्धे च प्रकीर्तितः । एकाग्रमग्रं यस्यैकं तत्र तत्पर एव च ॥ १९ ॥ १. 'लः' ङ. पाठः.

  • 'उष्टमित्योषतेरेतद्' इति पाठः स्यात् । + 'आदितश्च (७. २. १६) इति चकारस्या-

मुक्तसमुच्चयार्थत्वादिप्रतिषेध' इति भट्टभास्करः । आगमशासनानित्यत्वाद्वेडभावः ।