पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः । त्र्यक्षरकाण्डः | स्त्रीलिङ्गाध्यायः | अथ खल्वयमत्यन्तः काण्ड: प्रस्तृयतेऽधुना | नानार्थत्र्यक्षराणां यः सर्वस्वं काव्यकारिणाम् ॥ १ ॥ तत्रादौ तावदध्यायः स्त्रीलिङ्गानां प्रणीयते । अथ स्त्रियामभिख्या स्याच्छोभायां कीर्त्तिसंज्ञयोः ॥ २ ॥ प्रज्ञायामपि विख्यातावभिधा तृक्तिसंज्ञयोः । अहल्या तु सरोभेदे भार्यायां गौतमस्य च ॥ ३ ॥ अवका स्याज्जलतृणे ज्ञेया चिञ्चोटिकाह्वये । शैवले चाप्यथाध्यण्डा त्वामलक्यात्मगुप्तयोः ॥ ४ ॥ असिक्नी तु निशीथिन्यां नदीभेदे तु कश्चन | तथैवान्तः पुरप्रेष्यस्त्रियां स्यादवनिः पुनः ॥ ५ ॥ भूमिनद्यङ्गुलीषु स्यादङ्गुलिस्त गजस्य च । कराग्रे कर्णिकासंज्ञे शाखाम्बप्यङ्घ्रिहस्तयोः ॥ ६ ॥ अनुष्टुप् छन्दसो भेदे ज्ञेया द्वात्रिंशदक्षरे । तथा देवासुरादीनां छन्दोभेदेषु च स्मृता ॥ ७ ॥ वाचि सम्भावनायां तु स्यादाशङ्का भयेऽपि च । आकृतिस्तु शरीरे स्यादाकारव्यक्तिजातिषु ॥ ८ ॥ अष्टाशीत्यक्षरे च स्याच्छन्दोभेदेऽप्यथाततिः । अन्धकारे तथा मार्गे विस्तारे च प्रकीर्तिता ॥ ९ ॥ १. 'घु' ग. पाठः,