पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयक्षरकाण्डे नानालिङ्गाध्यायः । स्पर्शनं तु नपि स्पृष्टौ दाने च प (त? व )ने तु ना | अना तु स्पर्शयत्यर्थे स्पर्शना परिकीर्तिता ॥ १८७७ ॥ इसर्गकं त्वतिबांले स्याद् (बघ्नी ? दघ्नि) * यत्रोप्तमात्रकम् । संयावनं तत्र भेद्यलिङ्गं तु स्रष्टरि स्मृतम् ॥ १८७८ ॥ अथात्र रभसः प्राह पुल्लिङ्गे वचनं यथा । नालिकेरस्य सस्याभमणौ खड्ङ्गे च सस्यकः ॥ १८७९ ।। भागवृत्तिकृता तूक्तं सस्य सम्पन्नवस्तुषु । न्रीहिशाल्यादिकेष्वेव स्थावरेध्वत्र भेद्यवत् || १८८० ॥ यत् त्विदं गुणसम्पन्ने जयादित्येन भाषितम् । अतिलोकतया तस्य विरसत्वादुपेक्षितम् ॥ १८८१ ॥ संहितं तु त्रि संलिष्टे संहिता तु स्त्रियामियम् । शास्त्रग्रन्थ जातिभेदे वेदभागेऽपि च क्वचित् ॥ १८८२ ॥ अतीव सन्निकर्षे च वर्णानां क्ली तु सामनि । षष्ठे च नत्रमे चैव खादिष्ठावर्गगीतके || १८८३ ॥ सप्तकस्तु पुमान् सङ्गे सप्तानां क्ली तु सप्तकम् । मृगयाक्षादिषु स्त्री तु सप्तकी काञ्चिदामनि ॥ १८८४ ॥ सप्तमं तु त्रिसप्तानां पूरणे सप्तमी पुनः । स्यात् सप्तमविभक्तौ च दुर्गादेव्यास्तियावपि ॥ १८८५ ॥ सङ्कोचने तु सङ्कोचः पुमान् क्लीवं तु कुङ्कुमे । सम्बाधस्तु भगे स्त्रीणां पुमान् मेढ्रे च सज्जनः ।। १८८६ ।। २११ कारायां सङ्कटेऽन्ये तु सङ्कटे त्रिषु मन्वते । संस्कृतं त्वाहितोत्कर्षे कृत्रिमे निर्मलीकुते ॥ १८८७ ॥ १. 'मात्रे स्या' ग. पाठः २. 'प' क. च. पाठ:. $ संजेकंमिति स्यात् । * 'संजावने तूप्तमात्रे प्राइमन्दात् सर्जकं दघि' (पृ. १३४. श्लो, ४०) इति वैजयन्ती ।