पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । दुग्घे फेने चै रभसः प्रोक्तवाञ्छब्दवित्तमः । शाण्डिल्यस्त्वृषिभेदे ना स्याद् बिले पावकान्तरे ॥ १८०८ ॥ शण्डिलस्य त्वपत्ये द्वे गोत्रे स्त्री तत्र शाण्डिली । शारिका तु स्त्रियां शारीसंज्ञे पक्ष्यन्तरे तथा ॥ १८०९ ॥ वाद्यवादनदण्डे च * शाकटस्तु त्रि हिंसके । शालेयस्तु पुमाञ्जेयो मिश्रेयासंज्ञभेषजे ॥ १८१० ।। चाणक्यमूलकेऽप्याह कश्चित् क्षेत्रे तु भेद्यवत् । शाल्युद्भवोचिते क्ली तु चर्मपर्णीसमाह्वये ॥ १८११ ॥ शार्ङ्गाष्टं स्याल्लताभेदे शार्ङ्गाष्ठा तु स्त्रियामियम् । प्रसिद्धे स्थावरे दासीषडश्रादिपदैरथ ॥ १८१२ ॥ श्यामलोऽश्वत्थवृक्षे ना कार्ष्ण्ये च त्रि तु तद्वति । श्यामिका मृगभेदे स्त्री श्यामला षोडशाङ्गुला ।। १८१३ ॥ श्वेतबिन्दुरिति प्रोक्तं लक्षणं तस्य सा तथा । ज्ञेया हेममले ना तु श्यामाकाह्वयधान्यके || १८१४ ॥ श्यामकः शाकटस्तु स्यात् पुमान् पलशतात्मनः । तुलासंज्ञस्य मानस्य विंशत्यात्मकभारके ॥ १८१५ ॥ शाकटीनापराभिख्ये यत् तु मानं व्यवस्थितम् । उक्ता(द्) दशगुणं तस्मात् तथा दशगुणं हि यत् ॥ १८१६ ॥ तस्माच्च यद् दशगुणं तस्मिन् क्ली मेद्यवत् पुनः । शकटेः. शकटस्यापि सम्बन्धिनि तथा स्मरेत् ॥ १८१७ ॥ वाहके शकटस्याथ शाकटी स्त्रीति बुध्यताम् । अर्थे निदानकारेण प्रयुक्ते शाकरस्तु ना ॥ १८१८ ।। १. 'तु' ग. ङ. च. पाठः. २. 'रि' ग. ङ. पाठः. २०५

  • 'शारकस्तु' इति पाठः स्याद् अर्थसामजस्यात्, शाकटशब्दस्योपरिष्टाद्वक्ष्यमाणत्वाच ।