पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । स्त्रियां तु बहुला भूम्यामेलायां सुरभावपि । श्वेतायां चाथ रोदस्यौ द्विवचो बहुले इति ॥ १२३० ॥ स्त्रीभूम्नि कृत्तिकासु स्याद् बर्हिणं तु नपुंसकम् । ज्ञेयं भारतवर्षस्थद्वीपभेदे द्वयोः पुनः ॥ १२३१ ॥ मयूरे बर्हवति तु भेद्यवद् बदरी पुनः । अजगन्धाह्वयस्तम्बे कुवलीसंज्ञपादपे || १२३२ ॥ ईश्वरस्थानभेदे च स्त्रियां स्याद् बदरी पुनः । विष्वक्सेनप्रियासंज्ञस्थावरे परिकीर्तिता ॥ १२३३ ॥ कार्पासीति प्रसिद्धे च गुल्मे स्याद् बदरं तु नप् । एषां स्यात् प्रसवेऽथ स्यान्म्लेच्छजात्यन्तरे द्वयोः ॥ १२३४ ॥ बर्बरो बर्बरा तु स्त्री स्तम्बे यस्याहयान्तरम् । अजगन्धेति ना तु स्याद् भार्ङ्गिसंज्ञकभेषजे ॥ १२३५ ॥ बन्धकस्तु पुमान् बन्धुजीवाख्ये पुष्पगुल्मके | रभसस्त्वसनाभिख्यपादपेऽप्यपठीदिदम् || १२३६ ॥ प्रसवे त्वनयोरेतन्नब्लिङ्गमवधारयेत् । पशुबन्धनरज्जौ तु बन्धनी स्त्री नपि त्वदः ॥ १२३७ ॥ बन्धनं स्यात् संयमने त्रि तु बन्धस्य साधने । बन्धे तु रभसः प्राह बन्धकी तु स्त्रियामियम् ॥ १२३८ ॥ कुलटायां तथानाप्तसत्कृतिर्वेशगामिनी । अर्थाय या स्त्री तस्यां च करिण्यां चाह शब्दवित् ॥ १२३९ ॥ निघण्टुकारो रभसो बन्धरि त्वेष भेद्यवत् । आधौ तु बन्धकं क्लीबे बलूरस्तूपले पुमान् ॥ १२४० ॥ स्तने च द्वे तु मत्स्येऽथ बहिष्ठं स्यान्नपुंसकम् | ह्रीबेरे त्रिस्तु महति काके तु बलिभ्रुग् द्वयोः ॥ १२४१ ॥ १. ड. च., 'जी' ग. पाठः, २. 'क' ग. पाठः.