पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 इमं केशवस्वामिनं मल्लिनाथ: [१] स्वीयासु महाकाव्यव्याख्यासु प्रमाणयति, तथा मल्लिनाथप्राचीनोऽरुणाचलनाथः [२]

 एष नानार्थार्णवस्य प्रथमः सम्पुटः प्रथमकाण्डद्वयात्मक इदानीं प्रकाश्यते । द्वितीयस्त्र्यक्षरकाण्डात्मा तृतीयश्चावशिष्टकाण्डत्रयात्मा क्रमशः प्रकाशमेष्यतः ।

अनन्तशयनम्.
त. गणपतिशास्त्री.
 

  1. “वज्र त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे इति केशवः” इति रघुवंशप्रथमसर्गचतुर्थश्लोकव्याख्यायाम् ।
  2. “त्रिष्वन्यत्रोपयुक्ततः इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेषशब्दस्य विशेष्यलिङ्गत्वमवसेयम्” इति कुमारसम्भवप्रथमसर्गषोडश श्लोकव्याख्यायाम् ।