सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । लेढा तु मृदुवाते ना लेहके त्रिरथो नृनप् । लोहं तैजसमात्रे च मरिचे हेम्न्ययस्यपि ॥ ११४६ ॥ गन्धद्रव्येऽप्यगुर्वाख्ये लोपस्तुच्छेदने पुमान् । अदर्शने च शब्दस्य शुकभेदे तु सा स्त्रियाम् ॥ ११४७ ॥ १ लोपा लोभ्यं त्वारकूटे क्ली ना मुद्रे त्रिषु त्वयम् । लोभनीयेऽथ लौहं स्याल्लोहसम्बन्धिनि त्रिषु ॥ ११४८ ॥ क्लीबलिङ्गं त्वयस्येतद् वैजयन्त्यामधीयते । वरो ना भूपजामात्रोर्देवादेरीप्सिते क्रुधि ॥ ११४९ ॥ सम्भक्तौ च निरोधे च वृड्वृञोर्भाववाचकः । यवक्षारे तुरुष्काख्य निर्यासे मारिषान्तरे ॥ ११५० ॥ लतामारिष इत्युक्ते चटके तु द्वयोरयम् । अथोत्तरेषु षट्सु क्ली तक्कोले कुङ्कुमेऽपि च ॥ ११५१ ॥ गुग्गुलौ हरिताले च महोदर्याख्य मुस्तके । वर्तुलाकाररचित वह्निकुण्डेऽप्यथ स्त्रियाम् ॥ ११५२ ॥ पथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः। आस्फोतीकण्टकार्योश्च वराथ स्याद् वरी इति ॥ ११५३ ॥ कण्टकारीशतावर्योरथ श्रेष्ठे विशेष्यवत् । क्लीबमेव मनागिष्टे केचिदाहुस्तदव्ययम् ॥ ११५४ ॥ वर्णस्त्वक्षर एवास्त्री केषांचिदपरे पुनः । विलेपने प्रकारे च शोभायां चास्त्रियां विदुः ॥ ११५५ ॥ ना तु द्रव्याश्रितगुणमात्रे शुक्लादिके पुनः । विशेषादथ विप्रादौ स्तुतौ गीतिक्रमे कुथे ॥ ११५६ ॥ अजयस्त्वाह चित्रेऽपि उक्तिमात्रे च दृश्यते । आकृत्यां माल्ययशसोर्वृते वेषे परे पुनः ॥ ११५७ ॥ १. 'टा' ङ. पाठः,