सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अक्षरकाण्डे नानालिङ्गाध्यायः । क्षीरे पुष्परसे मद्ये मन्त्रभेदेषु केषुचित् । शाकवल्लयां तु जीवन्तीसंज्ञायां स्त्री नृनपूः पुनः ॥ ९५९ ॥ क्षौद्रपौत्तिकपूर्वेषु मधुभेदेषु * तत्सुरे । मनुस्तु पुंसि मन्त्रे स्यात् पूर्वे च क्षत्रियान्तरे ॥ ९६० ॥ स्त्रियां तु तस्य भार्यायां मनावी च मनाय्यपि । मयुद्धे किन्नरे ना तु प्रक्षेपे मन्तुवाक् तु ना ॥ ९६१ ॥ वैमनस्येपरांधे च तथा शोके प्रजापतौ । अजयस्त्वाह विज्ञे त्रिस्तथैव स्यात् प्रियंवदे ॥ ९६२ ॥ मन्युर्दैन्ये कृपायां च शोके क्रोधे क्रता च ना । त्रिषु मेधाविनि द्वे तु मद्गुः सलिलवायसे ॥ ९६३ ॥ मर्त्यजात्यन्तरे निश्वरुटीजे तथा पुनः । माहिष्य आयुर्वेदेन जीवत्यम्बष्ठसंज्ञके ॥ ९६४ ॥ स्यात् पारधैनुके चापि यस्याघोषणवृत्तिता । मस्तुस्तु नृस्त्रियोर्मुष्टौ पिण्डिताङ्गुलिरूपके ॥ ९६५ ॥ वैजयन्त्यामिदं प्रोक्तं दधिमण्डे तु तन्नपि । मर्जूः सम्मार्जनीशुद्ध्योर्नदीतीरे परः पुनः ॥ ९६६ ॥ नद्यां तीरेsपि चेत्याह शिलायां च स्त्रियामियम् । रजके तु द्वयोः कश्चिन्ना तु मन्ता प्रजापतौ ॥ ९६७ ॥ त्रिरेष्टृज्ञातृविद्वत्सु महत् + तु क्लीवारिणोः । राज्ये वृन्दे च पूज्ये तु त्रि बृहत्यपि ना पुनः ॥ ९६८ ॥ महर्लोके च बुद्धौ च महती तु स्त्रियामियम् । त्रिवृत्संज्ञलताजातौ वीणायां नारदस्य च ।। ९६९ ॥ १. 'च' क. घ. पाठः. १२५ मह- -* तेषां सुरा तत्सुरं 'विभाषा सेनासुरा' (२. ४. २५) इति क्लीबत्वम् । छन्दः क्लीने बारिवाचक इत्यर्थश्वत् प्रत्येतव्यः, तर्हि 'महत् क्लीवं तु वारिणि' इति पाठो भवेत् ।