2 नानार्थार्णवसंक्षेपे कोशातक्यां च फलिनी प्रियङ्ग्वाहयपादपे । फालो लाङ्गलकूटे ना श्वेतार्के दाडिमे तथा ॥ ८३० ॥ निष्पत्तौ शरणेऽथ क्ली तक्कोले च फलस्य तु | विकारादौ त्रि फुल्लं तु त्रये विकसने त्रि तु || ८३१ ॥ आश्चर्ये स्याद् विकसितेऽप्यथो विशरणे नपि । निष्पत्तौ चाथ शण्डे स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥ बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूवथ | बलभद्रे यावकाख्ययवभेदे च नाथ तम् ॥ ८३३ ॥ कश्चिद् दैत्यान्तरेऽप्याह तदसाध्विव लक्ष्यते । दैत्ये दन्त्यौष्ठयवर्णादेर्वलशब्दस्य दर्शनात् ॥ ८३४ ॥ त्रिषु तु स्याद् बलवति स्त्री तु वाट्यालके बला । पिप्पल्यां च परे त्वेनं काके प्राहुर्द्वयोरिति ॥ ८३५ ।। अन्ये तु तदसत् प्राहुर्दन्त्यौष्ठ्यादित्वसङ्गरात् । वकन्तु ना दाल्भ्यमुन।वेक चक्रापतावपि ।। ८३६ ॥ द्वे तु कहाह्वये पक्षिभेदे जात्यन्तरे नृणाम् । पुल्कसीक्षत्रियोद्भूते ब्रध्नस्त्तृप्यन्तरे पुमान् ॥ ८३७ || सूर्ये स्वर्गे द्वयोस्तु स्याद् ब्राह्मणे तुरगेऽपि च । बलिःपूजोपहारे ना भागधेये नृपस्य ॥ ८३८ । प्राणनार्थकधातौ च दैत्यभेदेऽथ नृस्त्रियोः । देवतार्चनतूर्येऽथ बलिर्द्वे श्येनकाकयोः॥ ८३९॥ बभ्रुर्ना केशवे पूर्वराजभेदर्षिभेदयोः । असौ कडारवृषभे धने वर्णे च पिङ्गले ॥ ८४० ॥ त्रि तु तद्वति खल्वाटे द्वे त्वोतौ नकुलेऽपि च । बभ्रुः कपिलगव्यां स्त्री बन्धुर्ना स्वजने स्वरे ॥ ८४१ ॥ १ 'क' ख. ङ. पाट:. २. 'दालमु' क. घ, 'दाह्यमु' ख, 'गार्हामु' ग, पाठ: ख. ङ. पाठः, 'लि' क. घ. पाठ:. ४. 'पु' ग. पाठः. ३. 'विं'
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२०
दिखावट